घुट्य तं प्रति न गतम् । सोपि त्वदधीनो जातोस्तीति भावः । प्रजिघाय, हिनोलिटि 'हेरचङि' इति कुत्वम् [१]॥
तथा न तापाय पयोनिधीनामश्वामुखोत्थः क्षुधितः शिखावान् ।
निजः पतिः संप्रति वारिपोपि यथा हृदिस्थः स्मरतापदुःस्थः॥८१॥
तथेति ॥ यतः स्मरदाहेन कामज्वरेण दुःस्थः पीडितः, अतो वारि पाति रक्षतीत्येवं- विधोऽपि हृदिस्थः स्मरणगोचरः, अथ च मध्ये विद्यमानो निजः स्वीयः पतिर्वरुणः संप्रति त्वद्विषयविरहदशायां यथा येन प्रकारेण पयोनिधीनां संतापाय भवति तथा तेन प्रकारेण क्षुधितो बुभुक्षितः मध्ये विद्यमानः संनिहितो वारि पिबति वारिपः एवं- भूतोऽपि अश्वामुखोत्थो वडवामुखोत्थः शिखावानग्निः पयोनिधीनां तापाय नाभूत् । वारिपत्वे हृदिस्थत्वे तुल्येऽपि कामदाहदुःस्थत्वाभावात्तथा न तापकारित्वमित्यर्थः । कामज्वरपीडितजलप्रविष्टवरुणसंस्पर्शात्पयोनिधयोपि संतप्ता बभूवुरित्यतो हेतोर्वरुणोऽतितरां कामेन पीडित इति भावः । वडवानलादपि विरहानलोऽधिक इति भावः। अन्योऽपि साधुर्दासः पीडितं स्वामिनं स्मरन्संतप्यते । क्षुधितः 'वसतिक्षुधोरि[२]ट्॥
यत्प्रत्युत वन्मृदुबाहुवल्लीस्मृतिस्रजं गुम्फति दुर्विनीता।
ततो विधतेऽधिकमेव तापं तेन श्रिता शैत्यगुणा मृणाली ॥८२॥
यदिति ॥ शैत्यमेव गुणो यस्याः सा तेन वरुणेन शरीरोपरि श्रिता निक्षिप्ता मृणाली यद्यस्मात्त्वन्मृदुबाहुवल्ली तस्याः स्मृतिनजं स्मरणपरम्परां गुम्फति करोति साह- श्यात् । ततस्तस्माद्वैपरीत्येन पूर्वापेक्षयाप्यधिकं तापं विधत्ते करोति । अत एव दुर्विनीता दुष्टा । संतापशान्त्यर्थ श्रितस्य शीतलस्याधिकसंतापकारित्वमेव वैपरीत्यम् । सादृश्यात्त्वबाहुवल्लयाः स्मारकत्वान्मृणाली तमतितरां तापयतीति भावः। अन्योऽपि दुविनीतो यदर्थमाश्रीयते तद्विरुद्धमेव क[३]रोति ॥
न्यस्तं ततस्तेन मृणालदण्डखण्डं बभासे हृदि तापभाजि।
तच्चित्तमौर्मदनस्य बाणैः कृतं शतच्छिद्रमिव क्षणेन ॥८३ ॥
न्यस्तमिति ॥ सकलमृणाली यतस्तापं करोति ततः सकलमृणालीत्यागानन्तरं तापभाजि हृदि तेन न्यस्तं मृणालदण्डखण्डं तस्य वरुणस्य चित्ते मग्नर्मदनस्य बाणैःक्षणेन शतच्छिद्रं बहुरन्धं कृतमिव बभासे शुशुभे । भग्नं मृणालं स्वत एव शतच्छिद्रं भवति तस्य शतच्छिद्रत्वमन्यथोत्प्रेक्षितम् । कामबाणैस्तद्धयं जर्जरीकृतमिति भा[४]वः॥
इति त्रिलोकीतिलकेषु तेषु मनोभुवो विक्रमकामचारः।
अमोघमस्त्रं भवतीमवाप्य मदान्धतानर्गलचापलस्य ॥८४॥