पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३३६
नैषधीयचरिते

ब्रवीतीति ॥ इयं मे संवित् चेतना संदेहलक्षणां दोलामवलम्ब्याधिरुह्य किं किं ब्रवीतीति न जाने । किं नल एव त्वं, अन्यो वा । मामेवोद्दिश्यागतः, अन्यं वेत्याद्यनेकप्रकारः संशयो भवति । सत्यं किमिति न निश्चिनोमीत्यर्थः । अथवा पूर्वापरितोषे । अलीकसंभावनया मामुद्दिश्यागतोसीति, नलोसीति च मृषासंभावनयालं सा न कार्या। यतः-त्वं अन्य एव कस्यापि धन्यस्य लोकोत्तरभागधेयस्य गृहेऽतिथिर्भविष्यसि प्रायेण नतु मम । एतादृग्भागधेयाभावादिति भावः । 'कस्यासि' इति पाठे गृहातिथिरसि वदेत्य[१]र्थः॥

  प्राप्तैव तावत्तव रूपसृष्टिं निपीय दृष्टिर्जनुषः फलं मे ।

  अपि श्रुती नामृतमाद्रियेतां तयोः प्रसादीकुरुषे गिरं चेत् ॥४९॥

 प्राप्तेति ॥ मे दृष्टिस्तव रूपसृष्टिं रामणीयकातिशयं निपीय सादरं विलोक्य तावत्प्रथमतः जनुषो जन्मनः फलं साफल्यं प्राप्तैव । परं श्रुती अपि कर्णावपि अमृतं नाद्रियेताम् , अपि तु ते अप्यमृतपानं कुरुताम् । चेद्यदि स्वीयां गिरं तयोः श्रुत्योः प्रसादीकुरुषे । प्रसन्नो भूत्वा किमपि वदिष्यसि तर्ह्यमृतपानजन्यं सुखमनयोर्भविष्यतीत्यर्थः। सर्वस्यापि प्रश्नस्योत्तरं प्रयच्छेति भावः[२]

  इत्थं मधूत्थं रसमुद्गिरन्ती तदोष्ठबन्धूकधनुर्विसृष्टा

  कर्णात्मसूनाशुगपञ्चबाणी वाणीमिषेणास्य मनो विवेश ॥ ५० ॥

 इत्थमिति ॥ प्रसूनाशुगः कामः, तस्य पञ्चबाणी वाणीमिषेण कर्णात्कर्णं प्रविश्यास्य नलस्य मनो विवेश । किंभूता-इत्थं पूर्वोक्तप्रकारेणातिस्वादुत्वान्मधूत्थं माक्षिकोद्भवममृतोद्भवं वा रसमुद्भिरन्ती प्रकटयन्ती पुष्परसं च क्षरन्ती । तथा-तस्या ओष्ठलक्षणं बन्धूकं तल्लक्षणं कामधनुस्तेन विसृष्टा युगपन्मुक्तानां कामबाणानां युगपदन्तः प्रवेशे यथा कामव्यथा भवति, तथा तद्वाणीसमाकर्णनमात्रेण तस्याभूदिति भावः । कर्णात्, ल्यब्लोपे पञ्च[३]मी ॥

  अमज्जदाकण्ठमसौ सुधासु प्रियं प्रियाया वचनं निपीय ।

  द्विषन्मुखेपि स्वदते स्तुतिर्या तन्मि(न्मृ)ष्टता नेष्टमुखे त्वमेया ॥ ५१ ॥

 अमज्जदिति ॥ असौ नलः प्रियायाः प्रियं मधुरं, सानुरागं च स्वीयस्तुतिरूपं वचनं निपीय सादरमाकर्ण्य आकण्ठं कण्ठावधि, 'आमज्जम्' इति पाठे मज्जापर्यन्तं, सुधास्वमृतेष्वमज्जत् । सर्वाङ्गीणानन्दमयोभूदित्यर्थः । स्वस्तुतिश्रुत्या कथमानन्दो युक्त इत्यत आह-या स्तुतिः द्विषन्मुखेऽपि विद्यमाना सती स्वदते रोचते तस्याः स्तुतेः मि(मृ)ष्टता मधुरता इष्टमुखे तु पुनरमेया (न) अपरिमिता न भवति, अपि तु भव-



  1. 'अत्राक्षेपोलंकारः' इति साहित्यविद्याधरी
  2. 'अत्रातिशयोक्तिरलंकारः' इति साहित्यविद्याधरी
  3. 'अत्र च्छेकानुप्रासरूपकापह्नुतिरलंकारः' इति आहित्यविद्याधरी।