पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३३४
नैषधीयचरिते

जगति भुवने मध्ये इन्दुना शिलं चोञ्छश्च क्षेत्रादिपतितकणादानधान्यादानलक्षणौ शिलोञ्छौ तावेव वृत्तिर्जीविका यद्यस्मादशीलि अभ्यस्ता कृता तत्तस्मात्कारणान्महेश्वरेण माणवकोऽपि वालः कलारूपोऽपि स चन्द्रो मौलौ शिरस्यारोपि धृतः, यज्वनां याजकानां राज्येऽपि चाभिषिक्तः । द्विजराजोऽपि तत एव कृत इत्यर्थः । त्वद्गृहीतात्कान्तिसारादवशिष्टं कान्तिभागं कथंचिन्मेलयित्वा चन्द्रेण स्वस्य सौन्दर्यं यस्मादर्जितं तस्मात्कलामात्रस्यापि सुन्दरत्वादीश्वरेण वालोऽपि शिरसि भूषणत्वेन धृतो यज्वनां मध्ये श्रेष्ठश्च कृतः, अत्युज्ज्वलत्वाच्छिलोञ्छवृत्त्युपादानाच्चेत्यर्थः । बालोप्यन्यस्तपस्वी महता राज्ञा नमस्क्रियते द्विजराज्ये स्थाप्यते च । महाधनिकेन माणवको हारविशेषो मौलावारोप्यत इत्याश्चर्यम् । स तु कण्ठे धार्यते न तु शिरसि । चन्द्रे त्वच्छोभालेश एव विद्यते, त्वादशः सुन्दरः कोऽपि नास्तीति भावः। 'जीवेद्वापि शिलोञ्छेन' इति स्मृत्या शिलोञ्छवृत्तिजीविनोऽतिप्रशस्त[१]त्वोक्तेः ॥

  आदेहदाहं कुसुमायुधस्य विधाय सौन्दर्यकथादरिद्रम् ।

  त्वदङ्गशि[२]ल्पात्पुनरीश्वरेण चिरेण जाने जगदन्वकम्पि ॥ ४३ ॥

 आदेहदाहमिति ॥ कुसुमायुधस्य कामस्य आदेहदाहं देहदाहमारभ्य सकलं जगत्सौन्दर्यकथया दरिद्रं विहीनं विधाय इदानीं त्वदङ्गस्य शिल्पान्निर्माणाद्धेतोः ईश्वरेण पुनरपि चिरेण चिरकालाज्जगत् अन्वकम्पि कृपया दृष्टमिति जाने अहमुत्प्रेक्षे । कामा(मदाहा)दनन्तरमियन्तं कालं सौन्दर्यवार्तापि नाभूत्, इदानीं तत्स्थाने तवाभिषेककरणादीश्वरेण जगतः कृपा कृतेत्यर्थः । अन्योऽपि राजा दुःसहदारिद्र्यपीडितानां दयते। मदनादप्यधिकोसीति भावः[३]

  मही कृतार्था यदि मानवोसि जितं दिवा यद्यमरेषु कोऽपि ।

  कुलं त्वयालंकृतमौरगं चेन्नाधोपि कस्योपरि नागलोकः ॥४४॥

 महीति ॥ त्वं यदि कोऽपि मानवो मनुष्योऽसि, तर्हि मही कृतार्था कृतकृत्या । त्वयालंकृतत्वादित्यर्थः । अथच कृतः पर्याप्तोऽर्थोऽभिधेयं यस्याः सा मह्यते पूज्यते महीयत इति महीशब्दार्थः । यदि अमरेषु देवेषु मध्ये त्वं कोऽपि देवस्तर्हि दिवा स्वर्गेण जितं सर्वोत्कृष्टेन जातम् । पूर्वस्मादेव हेतोः। दीव्यति विजिगीषत इति द्यौरिति पूर्वं दिवो विजयेच्छैवाभूत् , इदानीं तया जितमित्यर्थः । त्वया औरगं सर्पसंबन्धि कुलमलंकृतं चेत्कश्चन नागस्त्वम् , तर्हि अधोप्यधोदेशस्थितोऽपि त्वयाधिष्ठितो नागलोकः पातालं कस्योपरि न ऊर्ध्वदेशे न, अपितु सर्वस्यापि । पूर्व एव हेतुः। न

गच्छन्तीत्यगाः न अगा नागास्तेषां लोकः । इदानीमप्रतिहतप्रसरत्वात्सर्वस्याप्युपरि गन्तुं योग्य इत्यर्थः । पूर्वोक्तेषु मध्ये कस्त्वमिति कथयेति भावः। संभावनया स्वाभिलषितत्वाच्च प्रथमं मान[४]वोक्तिः॥


  1. 'अत्रातिशयोक्तिरलंकारः' इति साहित्यविद्याधरी
  2. 'सर्गात्' इति पाठः साहित्यविद्याधरीसंमतः
  3. 'अत्रोत्प्रेक्षालंकारः' इति साहित्यविद्याधरी
  4. 'अत्रातिशयोक्तिरलंकारः' इति साहित्यविद्याधरी।