पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३३३
अष्टमः सर्गः

 मुग्ध इति । यद्यस्माद् यो मनोभूः कामः भवद्भ्रुवो रचनाय निर्माणाय ब्रह्मणे स्वं चापं ददत्प्रयच्छन् यदातदा सर्वदा अनेन प्रत्यक्षदृश्येन रूपेण सौन्दर्येण हेतुना तव भ्रुवोर्भङ्गः कौटिल्यं तन्मात्रेण जेयो जेतुं योग्यो जेतव्यमात्रकोऽभूत् , तस्मात्कारणात्स कामो मोहादज्ञानान्मुग्धो मूर्खो न तु सुभगात्सुन्दराद्देहाद्धेतोर्मुग्धः सुन्दरः। यः स्वीयमायुधं स्ववैरिणे प्रयच्छति स निरायुधत्वाद्धेलया वैरिणा जेतुं शक्यते । तस्मात्कामो मुग्धो मूर्खो न तु सुन्दरः। उन्मादकत्वात्तदाकारत्वाञ्च त्वद्भ्रुवौ कामचापे इति भावः । यदातदेति समुदायस्य सर्वदेत्ययमेवार्थः । 'मुग्धः सुन्दरमूढयोः' इति विश्वः[१]

  मृगस्य नेत्रद्वितयं तवास्ये विधौ विधुत्वानुमितस्य दृश्यम् ।

  तस्यैव चञ्चत्कचपाशवेषः पुच्छः स्फुरच्चामरगुच्छ एषः ॥ ४० ॥

 मृगस्येति ॥ तवास्ये विधौ मुखरूपे चन्द्रे 'विमतो मृगवान् चन्द्रत्वात् , संमतवत्' इति विधुत्वेन हेतुनानुमितस्यानुमानगम्यस्य मृगस्य नेत्रद्वितयं नेत्रद्वयं दृश्यम् । दृश्यत इत्यर्थः । तस्यैव मृगस्य चञ्चन्विलसन्कचपाशः केशपाशः तस्य वेष आकारो व्याजो यस्यैवंविध एष पुच्छः स्फुरन् चामरगुच्छो यस्य स्फुरञ्चामरस्तबकयुक्तो दृश्यः,न तु केशपाश इत्यर्थः । चन्द्रतुल्यं मुखम् , मृगनेत्रतुल्ये नेत्रे, स्फुरच्चामरगुच्छपुच्छसदृशश्च केशपाशः । अलंकारार्थं चामरगुच्छः पुच्छे बध्यते । अत्र हरिणविशेषो ज्ञात[२]व्यः

  आस्तामनङ्गीकरणाद्भवेन दृश्यः स्मरो नेति पुराणवाणी ।

  तवैव देहं श्रितया श्रियेति नवस्तु वस्तु प्रतिभातिवादः ॥४१॥

 आस्तामिति ॥ इति पुराणवाणी पुराणानां पुरातनानाम्, पुराणी च जीर्णा वाग् आस्तां तिष्ठतु । इति किम्-स्मरो भवेन शिवेनानङ्गीकरणादशरीरकरणाद्धेतोः दृश्यो न नयनगोचरो नेति। तु पुनः तव देहं श्रितया श्रिया शोभयैव कर्त्र्या अनङ्गीकरणात्कामस्याश्रयत्वेनास्वीकाराद्धेतोर्न दृश्यः नयनागोचरः । अथ च तेनैव हेतुना दृश्यो रमणीयो न भूत इति नवो नूतनोऽपूर्वश्च वादो वचनं वस्तु सत्यभूतः वस्तु तत्त्वं वा प्रतिभाति स्फुरति । कामस्त्वच्छोभया जितत्वाददृश्यो जातो, न तु दग्धत्वादिति तत्त्ववादः । कामादपि सुन्दरोसीति भावः । नवः प्रतिभाया अतिवादोऽतिशय इति वा । वाणी स्त्री जीर्णा, वादस्तु पुमान्नवश्च, अनयोर्महदन्तरमित्यर्थः । त्वदेहाश्रितया शोभया हेतुना शोभादर्शनमात्रेणादृश्यो जात इति वा[३]

  त्वया जगत्युच्चितकान्तिसारे यदिन्दुनाशीलि शिलोञ्छवृत्तिः ।

  आरोपि तन्माणवकोपि मौलौ स यज्वराज्येपि महेश्वरेण ॥४२॥

 त्वयेति ॥ त्वया उञ्चितो गृहीतः कान्तिसारः शोभाश्रेष्ठभागो यस्य यस्माद्वा एवंविधे


  1. 'अत्रातिशयोक्तिरलंकारः' इति साहित्यविद्याधरी।
  2. रूपकापह्नुत्यलंकारौ' इति साहित्यविद्याधरी ।
  3. 'अत्रातिशयोक्तिरलंकारः' इति साहित्यविद्याधरी।