पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३२९
अष्टमः सर्गः।

 तव प्रवेशे सुकृतानि हेतु[१]र्मन्ये मदक्ष्णोरपि तावदत्र ।
 न लक्षितो रक्षिभटैर्यदाभ्यां पीतोसि तन्वा जितपुष्पधन्वा ॥२७॥

 तवेति ॥ तव अत्र प्रवेशे मदक्ष्णोर्मदीयनेत्रयोः सुकृतानि पुण्यान्यपि तावदादौ हेतुः कारणमित्यहं मन्ये । कारणान्तरे संभवत्यपि मन्नेत्रपुण्यमादिकारणमित्यर्थः । कथमि- त्यत आह-यद्यस्मात् रक्षिभटैरतिसुन्दरस्त्वं न लक्षितः। तथा- तन्वा वपुपा जितः पुष्पधन्वा कामो येन एवंभूतो यत् आभ्यां नेत्राभ्यां पीतोसि । स्वेच्छयावलोकितोसी- त्यर्थः । रक्षणार्थमेव नियुक्तैः शरैर्न दृष्टः, आभ्यां च दृष्टः, तत्र मन्नेत्रपुण्यमेवात्र प्रवेशे हेतुरिति भावः[२]

 यथाकृतिः काचन ते यथावा दौवारिकान्धंकरणी च शक्तिः।
 रुच्यो रुचीभिर्जितकाञ्चनीभिस्तथासि पीयूषभुजां सनाभिः॥२८॥

 यथेति ॥ यथा येन कारणेन ते आकृतिराकारः काचन लोकोत्तरातिरमणीया। य- थावा ते काचन अपूर्वा शक्तिश्च दौवारिकाणां रक्षकाणामन्धंकरण्यन्धताकारिणी । स्वीयगौरत्वेन जिता काञ्चनी हरिद्रा याभिस्ताभी रुचीभिः कान्तिभिः कृत्वा रुच्यो ऽभिलाषयोग्योऽसि । तथा तेन कारणेन पीयूषभुजां देवानां सनाभिः सगोत्रोऽसि। दे- वत्वेन विनैतन्न घटतेऽतः प्रायस्त्वं कश्चन देवोऽसीति मन्ये । चकारो रुच्य इत्यनेन योज्यः । रुच्यश्चासि यथा इति संवन्ध इति वा । 'निशाख्या काञ्चनी पीता हरिद्रा व. रवर्णिनी' इत्यमरः । 'काञ्चना' इति पाठे सुवर्णम् । दौवारिकइत्यत्र 'द्वारे नियुक्तः' इत्यर्थे 'तत्र नियुक्तः' इति ठकि 'द्वारादीनां च' इत्यैचि, अभूततद्भावे 'आढ्यसुभग-' इति ख्युनि खित्त्वात्पूर्वपदस्य मुमि 'टिड्ढा[३]-' इति ङीप् । रुचिमर्हति रुच्यः। 'तदर्हति' इति यत् । 'राजसूय-' इति निपातो वा । 'जितकाञ्चनीभिः' इति पाठे समासान्तविधेर- नित्यत्वात् 'नद्यृतश्च' इति न कप् । सनाभिः, 'ज्योतिर्जनपद्-' इति समानस्य सभावः[४]

 न मन्मथस्त्वं स हि नास्तिमूर्तिर्न चाश्विनेयः स हि नाद्वितीयः।
 चिन्हैः किमन्यैरथवा त[५]वेयं श्रीरेव ताभ्यामधिको विशेषः ॥२९॥

 नेति ॥ त्वं मन्मथो न । हि यतः स कामो नास्तिमूर्तिरशरीरी । त्वं आश्विनेयोऽश्वि- नीकुमारश्च न । चोप्यर्थः । हि यतः सः अद्वितीयो नास्ति, किंतु द्वितीयसहित एव । त्वं सशरीर एककश्च । अथवेति पूर्वापरितोषे । अन्यश्चिह्नैः किम्, अपितु न किमपि । किंतर्हि-ताभ्यां कामाश्विनेयाभ्यां सकाशादधिका तव इयं श्रीः शोभैव विशेषः।


  1. 'लक्ष्यः' इति पाठः साहित्यविद्याधरीसंमतः ।
  2. 'अत्रातिशयोक्तिकाव्यलिङ्गोपमालंकारः' इति साहित्यविद्याधरी
  3. इदं च काशिकानुसारेण । भाष्यमते तु सूत्रे ख्युनो पाठात् 'नञस्त्रञीकक्ख्युंस्तरुणतलुनानाम्-' इति वार्तिकेन बोध्यः ।
  4. 'अत्र काव्यलिङ्गमलंकारः' इति साहित्यविद्याधरी
  5. तवैवम्' इति साहित्यविद्याधरीसंमतः पाठः ।