पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३२७
अष्टमः सर्गः।

पर्कजन्या तृप्तिः प्रियाक्षराली प्रियवचनपङ्क्तिस्तस्या रसधारया माधुर्यधारयापि विधेया करणीया । मधुपर्कसामग्र्यभावे प्रियवचनमपि(मेव) वक्तव्यमित्यर्थः । पाद्यं पूर्ववत्[१]।।

 स्वात्मापि शीलेन तृणं विधेयं देया विहायासनभूर्निजापि ।
 आनन्दवाष्पैरपि कल्प्यमम्भः पृच्छा विधेया मधुभिर्वचोभिः॥२१॥

 स्वात्मेति ॥ आचारविदा शीलेन विनीतत्वादिना स्वभावेन सद्वृत्तेन वा कृत्वा स्वात्मापि स्वशरीरमपि तृणं विधेयम् । तृणं यथा नम्रीक्रियते, तथातिथीनामग्रे सेवार्थं स्वात्मापि नम्रीकर्तव्य इत्यर्थः । अथ च तृणाभावे स्वात्मैव तृणस्थाने विधेय इत्यर्थः । विष्टराद्यभावे निजापि स्वीयाप्यासनलक्षणा या भूः स्थानं सिंहासनादि तदप्यादराज्झटिति त्यक्त्वा विहाय देया । भूस्थाने आसनमेव कल्प्यमित्यर्थः । चरणक्षालनार्थे यदि जलं न संभवति तर्ह्यानन्दवाप्पैरपि हर्षाश्रुभिरप्यम्भः कल्प्यम् । अतिथिदर्शनमात्रेण दृष्टेन भवितव्यमित्यर्थः । अथ च जलस्थाने आनन्दवाप्पा एव कल्प्या इत्यर्थः । मधुभिरतिप्रियैर्वचोभिः पृच्छापि कुशलप्रश्नोपि विधेया । प्रियं वक्तव्यमित्यर्थः । मधुपर्कस्थाने मधुरं वचनमेव कर्तव्यमित्यर्थः । आचारवशान्मयापि प्रियवचनादि क्रियत इति भावः । शीलं स्वभावे सद्वृत्ते' इति विश्वः । 'अप्रणोद्योऽतिथिः सायमपि वाग्भूतृणोदकैः' इति स्मृतेः । पृच्छा पूर्ववत्[२]

 पदोपहारेऽनुपनम्रतापि संभाव्यतेऽपां त्वरयापराधः ।
 तत्कर्तुमर्हाञ्जलिसञ्जनेन स्वसंभृतिः प्राञ्जलतापि तावत् ॥ २२ ॥

 पदेति ॥ पदोपहारे चरणक्षालनविषये त्वरया झटिति अपामनुपनम्रता जलानामनानयनमपि अपराधः संभाव्यते यतो लोकेनेत्यर्थात् । विलम्बादानयनेऽपि झटित्यनानयनाद्यतोऽपराधः संभाव्यते तत्तस्मादाचारविदा अञ्जलिसञ्जनेन करपुटसंयोजनेन कृत्वा स्वस्य संभृतिरूपा स्वकरणीयातिथ्यसामग्री यावत्संपाद्यते, तावद्ञ्जलिसंयोजनेन स्वीया प्राञ्जलता ऋजुता कर्तुमर्हा । प्रकटीकर्तुमुचितेत्यर्थः । तावतापि पूर्वापराधशान्तिर्भवतीति भावः । यावत्स्वसंभृतिः स्वकरणीयातिथ्यसामग्री संपाद्यते तावदञ्जलिसञ्जनेन प्राञ्जलतापि कर्तुमर्हेति वान्वयः । यद्वा अपां त्वरया जलानयनार्थं संभ्रमेणानुपनम्रता नमस्काराभावोऽपराधः संभाव्यते । जलानयनात्पूर्वं कृतेन नमस्कारेण सर्वोप्यातिथ्यसंभारः कृतो भवतीत्यर्थः । तया एतत्सर्वं कृतमिति तात्पर्यम् । प्राञ्जल इति 'अच् प्रत्यन्वव-' इत्यत्र अच् इति योगविभागात्पद्मनाभ इतिवत्समासान्त इति ज्ञेयम्[३]

 पुरा परित्यज्य मयात्यसर्जि स्वमासनं तत्किमिति क्षणं न ।
 अनर्हमप्येतदलंक्रियेत प्रयातुमीहा यदिचान्यतोपि ॥ २३ ॥


  1. अत्र छेकानुप्रासकाव्यलिङ्गालंकारौं' इति साहित्यविद्याधरी
  2. 'अत्रातिशयोक्तिरूपकालंकारौं' इति साहित्यविद्याधरी
  3. 'अत्र काव्यलिङ्गमलंकारः' इति साहित्यविद्याधरी