पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३२५'
अष्टमः सर्गः।

 तत्कालमिति ॥ सा भैमी पूर्वोक्तक्रमेण मुक्तसंसारिणोः ये दशे अवस्थे तयो रसाभ्यां प्रीतिभ्यां कृत्वा द्वौ स्वादौ रसौ यत्र एवंविधं मिष्टमतिस्वाद्वतिबहुलमुल्लासं हर्षमभुङक्तानुबभूव । क्रममाह-किंभूता । तत्कालं तस्मिन्नलदर्शनकाले नलोयमिति बुद्ध्या आनन्दमयी आनन्दरूपा भवन्ती । तथा-सुरक्षितेऽन्तःपुरे नलागमनं क्वत्यमिति हेतोः अतिशयेन भवन् भवत्तरोऽतितरामनिर्वचनीयो लोकोत्तरो मोहो भ्रान्तिः यस्याः। तद्दर्शनेनैवात्पद्यमानमूर्छा वा । आनन्दरूपत्वं मुक्तदशा । 'आनन्दो ब्रह्मणो रूपम्' इति श्रुतेः । अनिर्वचनीयमोहवत्त्वं संसारिदशा । तुल्यकालमेव मुक्तसंसारिदशे तयानुभूते इत्याश्चर्ये च । अभुङक्त इति लङ् । 'अभुक्त' इति पाठे लुङ् [१]

 नलत्वनिश्चयं विना तत्रानुरक्ताया भैम्याः पातिव्रत्यभङ्गलक्षणामनौचितीमाशङ्क्य कविः परिहरति-

 दूते नलश्रीभृति भाविभावा कलङ्किनीयं जनि मेति नूनम् ।
 न संव्यधान्नैषधकायमायं विधिः स्वयंदूतमिमां प्रतीन्द्रम् ॥१६॥

 दूत इति ॥ विधिः इमां भैमी प्रत्युद्दिश्य नैषधस्य कायो नलदेह एव माया यस्य एवं- विधं कपटनलवेषधारिणमिन्द्रमेव स्वयंदूतं न संव्यधान्नाकरोत् । अपितु सत्यमेव नलं दूतमकरोत्, नूनमुत्प्रेक्षे । इति किम्-नलश्रीभृति नलकान्तिधारिणि दूते भाविभावा नलबुद्ध्यैव भविष्यदनुरागेयं भैमी नलव्यतिरिक्तेऽनुरागात्कलङ्किनी पातकिनी, अकीर्तिमती च मा जनि मा भूत् । कपटनलरूपधारणसामर्थ्ये सत्यपि इन्द्रो नलरूपं धृत्वा स्वीयदूत्यार्थं न गतवान् , तत्रेदमाकूतम्-ब्रह्मा भैम्याः पातिव्रत्यभङ्गो मा भूदितीन्द्राय बुद्धिं नादत्तेत्यर्थः । नलनिश्चयाभावेपि सत्य एव नलेऽनुरागान्न पातिव्रत्यक्षतिरिति भावः। 'जनिता' इति पाठे नूनं निश्चितं कलङ्किनी जनिता भविष्यतीति लुटा व्याख्येयम्[२]

 नन्वतिसुन्दरस्य नलस्यान्तःपुरे प्रवेशासंभवनिश्चयान्नलसदृशेऽन्यस्मिन्भैमीमनो- वृत्तेः कथं पाव्रित्यभङ्गाप्रसङ्ग इत्याशङ्कां परिहरति-

 पुण्ये मनः कस्य मुनेरपि स्यात्प्रमाण[३]मास्ते यदधेऽपि धावत् ।
 तच्चिन्ति चित्तं परमेश्वरस्तु भक्तस्य हृष्यत्करुणो रुणद्धि ॥ १७॥

 पुण्य इति ॥ आस्तां भैमी, परित्यक्तविषयस्य मुनेरपि कस्य मनः पुण्ये विषये प्रमाणं निश्चितं स्यात् , अपितु न स्यात् । कुतः यद्यस्माद् अघेऽपि परदारगमनादौ पातकेऽपि विषये धावत् शीघ्रं गच्छत् आस्ते । मुनेर्मनः पुण्ये एव नियतं प्रवर्तत इति न, किंतु पातकेऽपि । तत्राप्ययं विशेषः-शीघ्रमविचार्यैव प्रवर्तते । एतच्च धावत्पदेन सूचितम् । शीघ्रगतावेव धावादेशविधानात् । अत्र तु नलस्य सत्यत्वाद्भैम्याः पातिव्रत्यरक्षणार्थं ब्रह्मैवं कृतवानिति । तर्हि सर्वेऽपि मुनयः पापिनः स्युरित्याशङ्कां परिहरति-परमेश्वरः


  1. 'अत्र भावोदयातिशयोक्त्यलंकारौं' इति साहित्यविद्याधरी
  2. 'अत्रोत्प्रेक्षालंकारः' इति साहि- त्यविद्याधरी
  3. 'प्रमाणमेनस्यपि दृश्यवृत्ति' इति पाठः सुखावबोधासाहित्यविद्याधरीसंमतः ।