पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३१८
नैषधीयचरिते

देष्यन्ति समागमिष्यन्ति, विधिनापि तावत्यः तावत्संख्याका अङ्गुलयोऽङ्गुलिरूपा रेखा एवात्र चरणद्वन्द्वे सृष्टा निर्मिताः। एता अङ्गुलयो दश । दिगन्तानामपि दशसंख्यात्वाद्दशदिग्भ्यः कामार्ता नृपाः समागमिष्यन्तीति सूचनार्थं ब्रह्मणा दश रेखारूपा अङ्गुलय एव निर्मिताः । 'न रेखाः' इति पाठे अङ्गुलयो न भवन्ति, किंतु रेखा एवेत्यन्वयः। यावद्गणनादित्यव्ययीभावे 'अपञ्चम्याः' इति वचनादम्भावाभावः[१]

 नखान्वर्णयति-

  प्रियानखीभूतवतो मुदेदं व्यधाद्विधिः साधुदशात्वमिन्दोः।

  एतत्पदच्छद्मसरागपद्मसौभाग्यभाग्यं कथमन्यथा स्यात् ॥१०६॥

 प्रियेति ॥ विधिः मुदा स्वेच्छया नखीभूतवतो नखत्वं प्राप्तवत इन्दोः इदं दशत्वं दशसंख्यात्वं साधु उचितं व्यधात्कृतवान् । अथ च साध्वी शोभना दशावस्था यस्य एवंविधं(धत्वं) कृतवान् । कथमित्यत आह-अन्यथा अस्य इन्दोः एतस्याः पदच्छद्मना चरणव्याजेन सरागपद्मसौभाग्यं रक्तोत्पलसौभाग्यं तस्य भाग्यं लाभः कथं स्यात् । दशसंख्यत्वेन भैमीसमीचीनावस्थत्वेन च विनतच्चरणसेवा न लभ्यते । अनेन तावल्लब्धा, तस्मादस्य साधुदशत्वं कृतमिति ज्ञायत इत्यर्थः । चन्द्रपद्मयोविरोधाश्चन्द्रोदये कमलस्य संकोचात्समीचीनावस्थत्वेन विना रक्तोत्पलसंबन्धश्चन्द्रस्य न युज्यते, स तु जातः, तस्य च रक्तत्वं लब्धम् , तस्मादेतदनुमीयत इत्यर्थः । अन्योऽपि साधुदशत्वेनाप्राप्यमपि प्राप्नोति । दशापि चरणनखाश्चन्द्रतुल्या इति भावः[२]

 अङ्गुष्ठनखौ च पुनः पृथक्त्वेन वर्णयति-

  यशः [३]पदाङ्गुष्ठनखौ मुखं च बिभर्ति पूर्णेन्दुचतुष्टयं या।

  कलाचतुःषष्टिरुपैतु वासं तस्यां कथं सुभ्रुवि नाम नास्याम् ॥ १०७ ॥

 यश इति ॥ या भैमी यशः कीर्तिः पदाङ्गुष्ठनखौ मुखं च एतद्रूपं पूर्णेन्दुचतुष्टयं षोडशकलचन्द्रचतुष्टयं बिभर्ति, तस्याम् अस्यां सुभ्रुवि भैम्यां चतुरधिका षष्टिः कला कथं नाम वासं नोपैतु, अपितु प्राप्नोतीति युक्तमेतत् । षोडशकलचन्द्रचतुष्टयधारणात्षोडश कलाश्चतुर्गुणिताश्चतुःषष्टिर्भवन्तीति युक्तमित्यर्थः । गीतवाद्यादिकलाप्रवीणेयमित्यर्थः । कलेति जात्येकवचनम् । कलानां चतुःषष्टिरिति वा । 'कलाः' इति पाठे कलारूपा चतुःषष्टिरिति[४]

 अथ वर्णयितुमशक्येयमिति निगमयति-

  सृष्टातिविश्वा विधिनैव तावत्तस्यापि नीतोपरि यौवनेन ।

  वैदग्ध्यमध्याप्य मनोभुवेयमवापिता वाक्पथपारमेव ॥ १०८ ॥


  1. 'अत्रोत्प्रेक्षालंकारः' इति साहित्यविद्याधरी
  2. 'अत्र छेकानुप्रासश्लेषानुमानापडत्यलंकाराः' इति साहित्यविद्याधरी
  3. 'कराङ्गुष्ठ' इति पाठः साहित्यविद्याधरीसंमतः ।
  4. 'अत्रातिशयोक्तिश्लेषालं-कारः' इति साहित्यविद्याधरी