पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३१५
सतमः सर्गः।

इति भावः । 'भृगुः शुक्रे प्रपाते च जमदग्नौ पिनाकिनि,' 'व्यासो मुनी स्याद्विस्तारे' इति विश्वः[१]

 जङ्घे वर्णयति-

  क्रमोद्गता पीवरताधिजङ्घं वृक्षाधिरूढं विदुषी किमस्याः।

  अपि भ्रमीभङ्गिभिरावृताङ्गं वासो लतावेष्टितकप्रवीणम् ॥ ९७ ॥

 क्रमेति ॥ अस्या अधिजङ्घं जङ्घयोः विद्यमाना क्रमोद्गता पीवरता अवरोहक्रमनिमिता पीनता वृक्षस्याधिरूढं वृद्धिप्रकारं विदुषी किं जानाति किम् । वृक्षो यथा मूलभागे सूक्ष्मः अग्रभागे च स्थूलः तथेयं जङ्घयोः क्रमेणोद्गता पीनता । ऊर्ध्वभागे वृक्षो यथा भारवान्भवति तथेयं पीनतापीत्यर्थः । अथ च वृक्षाधिरूढाख्यमालिङ्गनविशेषं जानाति किम् । तथा-भ्रमीभङ्गिभिर्भ्रमणाकारवेष्टनविच्छित्तिभिः कृत्या आवृतमङ्गं येन एवंविधमस्या वासो दुकूलमपि लताया वेष्टितके प्रवीणं कुशलम् । यथा लता भ्रमीभङ्गिभिः वृक्षं वेष्टयति तथैव दुकूलमप्यङ्गं वेष्टयतीति भावः। 'बाहुभ्यां कण्ठमालिङ्ग्य कामिनी कान्त उत्थिते । अङ्कमारोहते तस्य वृक्षारूढः स उच्यते॥' 'उपविष्टं प्रियं कान्ता सुप्ता वेष्टयते यदि । तल्लतावेष्टितं ज्ञेयं कामानुभववेदिभिः॥' अधिजङ्गम्, विभक्त्यर्थेऽव्ययीभावः[२]

 गुल्फो वर्णयति-

  अरुन्धतीकामपुरंध्रिलक्ष्मीजम्भद्विषद्दारनवाम्बिकानाम्।

  चतुर्दशीयं तदिहौचितैव गुल्फद्वयाप्ता यददृश्यसिद्धिः ॥ ९८ ॥

 अरुन्धतीति ॥ अरुन्धती वसिष्ठपत्नी, कामपुरंध्री रतिः, लक्ष्मीः, जम्भद्विषहारा इन्द्राणी, नवसंख्याका अम्बिकाश्च ब्राहृयाद्याः सप्त, गौरी सरस्वती चेति द्वे, एतासां त्रयोदशानां पूरणी चतुर्दशी इयं यद्यस्मात् तत्तस्मादिहास्यामदृश्यस्य वस्तुनः सिद्धिरदृश्यता सा उचितैव युक्तैव गुल्फद्वयेन आप्ता प्राप्ता । अरुन्धत्यादिवदियमतिसुन्दरी पतिव्रता च, तस्मादस्यां निमग्नगुल्फत्वं नाम सामुद्रिकं लक्षणं युक्तमेवेति भावः । यस्मादस्यामदृष्टसिद्धिलब्धा, तस्मादियमरुन्धत्यादीनां चतुर्दशी समुचितेति वा संबन्धः। (अथ च चतुर्दश्यां तिथावदृश्यताया अदृश्यीकरणविद्यायाः सिद्धिः साधकानां प्राप्तिरुचितैव-इति सुखावबोधा)। आगमे 'चतुर्दश्यामदृश्यत्वसिद्धिर्भवति' इत्युक्तमित्यर्थः । चतुर्दशानां पूरणी, 'तस्य पूरणे डट्' । संख्यादित्वान्न मट् । टित्त्वान्ङीप्[३]

 षड्भि: पादौ वर्णयति-

  अस्याः पदौ चारुतया महान्तावपेक्ष्य सौक्ष्म्याल्लवभावभाजः ।

  जाता प्रवालस्य महीरुहाणां जानीमहे पल्लवशब्दलब्धिः ॥९९॥


  1. 'अत्रोत्प्रेक्षा श्लेषश्चालंकारौं' इति साहित्यविद्याधरी
  2. 'अत्रोत्प्रेक्षा श्लेषश्चालंकारौ' इति साहित्यविद्याधरी
  3. 'अत्र रूपकालंकारः' इति साहित्यविद्याधरी