पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३१३
सप्तम: सर्ग:

 अङ्गनेति ॥ अस्याः केनाप्यतिसौन्दयादनिर्वचनीयेन, अथ च ग्राम्यत्वात्प्रकटं वक्तुमयोग्येन अङ्गेनावयवेन योन्याख्येन चलपत्रस्याश्वत्थस्य पत्रं विशेषेण जेतुं गवेष्यने किमित्युत्प्रेक्षे। कुतो ज्ञातमित्यत आह-न चेदेवं तर्हि इतरच्छदेभ्योऽन्यवृक्षदलेभ्यः सका- शात् विशेषादाधिक्यात्तस्य च दलस्य कम्पः कुतः कस्मात्तु भयेन अस्तु भवतु । अन्यतरुदलापेक्षयाऽश्वत्थदले भूयान्कम्पो दृश्यते तदनेन जेतुं गवेष्यते । आकारेणाश्वत्थदलतुल्यमस्या वराङ्गमित्यर्थः[१]

 पञ्चभिः श्लोकैरूरू वर्णयति-

  भ्रूश्चित्रलेखा च तिलोत्तमास्या नासा च रम्भा च यदूरुसृष्टिः ।

  दृष्टा ततः पूरयतीयमेकानेकाप्सरःप्रेक्षणकौतुकानि ॥ ९२ ॥

 भूरिति ॥ अस्या भैम्याः भ्रूः चित्रा आश्चर्यरूपा लेखा विन्यासो यस्याः सा, अथ च चित्रलेखाऽप्सरोविशेषः । तथा-अस्या नासा तिलात्तिलपुष्पादप्युत्तमातिरम्या, अथ च नाव तिलोत्तमाऽप्सरोविशेषः । तथा-अस्या ऊरुसृष्टिश्च रम्भा स्वयं कदली, अथ च ऊरुसृष्टिः रम्भाप्सरोविशेषः । यद्यस्मात् । ततः तस्मादियमेकैव दृष्टा सती अनेकाप्सरसां प्रेक्षणजनितानि कौतुकानि पूरयति । ताभ्योऽप्यस्या अतिसौन्दर्यं द्रष्टुः कौतूहलं जनयतीत्यर्थः । एतदूरू कदलीतुल्याविति भावः । तिलादुत्तमेति 'पञ्चमी' इति योगविभागात्समासः[२]

  रम्भापि किं चिहूयति प्रकाण्डं न चात्मनः स्वेन न चैतदूरू ।

  स्वस्यैव येनोपरि सा ददाना पत्त्राणि जागर्त्यनयोर्भ्रमेण ॥ ९३ ॥

 रम्भेति ॥ रम्भापि कदल्यपि आत्मनः प्रकाण्डं स्वस्य स्तम्भं स्वेनात्मना नच नैव चिह्नयति स्वीयत्वेन न जानाति किम् । एतदूरू च न चिह्नयति एतदीयत्वेन न जानाति किम् । लोको न जानाति, रम्भापि न जानातीत्यपिशब्दार्थः । स्वस्तम्भं भैम्यूरुत्वेन भैम्यूरू च स्वस्तम्भत्वेन नाज्ञासीत् किमित्युत्प्रेक्षा । कुतो ज्ञातमित्यत आहयेन कारणेन अनयोर्भैम्यूर्वोर्भ्रमेण भैम्यूरू एताविति बुद्ध्या सा रम्भा स्वस्य आत्मन एवोपरि स्वेनैव पत्राणि पन्त्रालम्बनानि ददती सती जागर्ति । अन्योऽपि वादी प्रतिवादिनि पत्रालम्बनं कुरुते । इयं स्वपरविवेकाभावात्परस्मिन्कर्तव्यमात्मन्येव करोतीत्यर्थः। कदलीस्तम्भोपरि दलानि भवन्ति । कदलीगर्भस्तम्भतुल्यावेतदूरू इति भावः । चिह्नवन्तं करोति, 'तत्करोति' इति णिचि मतुब्लोपः[३]

  विधाय मूर्धानमधश्चरं चेन्मुञ्चेत्तपोभिः स्वमसारभावम् ।

  जाड्यं च नाञ्चेत्कदली वलीयस्तदा यदि स्यादिदमूरुचारुः ॥९४॥


  1. ’अत्रानुमानमलंकारः’ इति साहित्याविघाधरी
  2. ’अत्र रूपकश्लैपातिशयोलकारा:’ इति र्त्नुमानमलंकारः’ इति साहित्याविघाधरी
  3. ’अत्रानुमानमलंकारः’ इति साहित्याविघाधरी