पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३०४
नैषधीयचरिते

 आत्मेति ॥ स्मरोपि तस्माच्चतुर्दोः चत्वारो दोषो बाहवो यस्य एतादृश उचितो युक्तः। यतः चतुर्भुजस्य कृष्णस्य तातस्य पितुरात्मैव स्वरूपमेव । 'आत्मा वै पुत्रनामासि' इति श्रुतेः पितुः सदृशः पुत्रो युक्त एव । तस्य चतुर्भुजत्वे अस्या भ्रुवोः तच्चापयोः भ्रूरूप- योर्द्वयोः स्मरधनुषोः चिपिटे विस्तृते कर्णलते एव वंशत्वगंशौ वेणुत्वग्भागौ ज्ये किम् । भैम्या ध्रुवौ कामधनुषी कर्णौ मौर्व्यौ । द्वयोर्धनुषोमौर्वीद्वयं युक्तम् । निर्व्यापारस्य धनुषोऽवतारिता मौर्वी कोणे तिष्ठति कर्णलते अपि भ्रूधनुषोः कोणे वर्तेते इत्यर्थः। 'चिपिटौ' इत्यपि पाठः[१]

 ग्रीवां वर्णयति-

  ग्रीवाद्भूतैवावटुशोभितापि प्रसाधिता माणवकेन सेयम् ।

  आलिङ्गन्यतामय्यवलम्बमानासुरूपताभागखिलोर्घ्वकाया ॥ ६६ ॥

 प्रीवेति ॥ सेयं ग्रीवा अद्भुतैव आश्चर्यभूतैव अर्थाद्भैम्याः । अद्भुतत्वमेव विशेषणैराह-किंभूता- अवदा कृकाटिकाग्रीवापुरोभागेनालंकृता । अपिः समुच्चये । माणवकेनार्धहाराख्येन हारविशेषेण वा प्रसाधिताऽलंकृता । तथा-आलिङ्ग्यतामपि आलिङ्गनयोग्यमतिसौन्दर्यमवलम्बमाना आश्रयन्ती । अत एव सुरूपतां शोभनरूपत्वं भजत्याश्रयति एवंविधोऽखिल ऊर्ध्वकायः शरीरोर्ध्वदेशो यया। कण्ठसौन्दर्यात्सकल: शरीरोर्ध्वदेशः शोभते । ईदृशी ग्रीवा नान्यस्या इत्यर्थः। असुरूपताभागतिप्रियत्वात्प्राणरूपताभागखिलोर्ध्वकायो यया कृत्वेति वा । याऽवटुशोभिता न सा माणवकेन बालेन प्रसाधितेति विरोधादाश्चर्यम् । अथ च या लिङ्ग्यतां मर्दलविशेषत्वं तद्रूपत्वमवलम्बते सा सुरूपताभाजोखिला ऊर्ध्वका मृदङ्गविशेषा यस्या यया वा। हरीतक्याकृतिस्त्वङ्क्यो यवमध्यस्तथोर्ध्वकः। आलिङ्ग्यश्चैव गोपुच्छाकारः'। 'मृदङ्गा मुरजा भेदास्त्वङ्क्यालिङ्ग्योर्ध्वकास्त्रयः' इत्यमरः। 'सरूपता' इति पाठो वा । ग्रीवया कृत्वाऽद्भुतेत्येकपदे भैमीविशेषणानि । 'अवटुर्घाटा कृकाटिका, अर्धहारो माणवकः' इत्यमरः । भवेन्माणवको बाले हारभेदे कुपूरुषे' इत्यज(य)पालंः[२]

 कण्ठं वर्णयति-

  कवित्वगानप्रियवादसत्यान्यस्या विधाता व्यधिताधिकण्ठम् ।

  रेखात्रयन्यासमिषादमीषां वासाय सोयं विबभाज सीमाः॥ ६७ ॥

 कवित्वेति विधाता अस्या अधिकण्ठं कण्ठे कवित्वं गानं प्रियवादः प्रियवचनं सत्यं वा एतानि चत्वारि व्याधित रचितवान् । कुतो ज्ञातमित्यत आह-सोयं विधाता कण्ठे रेखात्रयस्य न्यासस्य मिषाच्चतुर्णाममीषां कवित्वादीनां पृथग्वासाय स्थित्यर्थं



  1. 'अत्र काव्यलिङ्गोत्प्रेक्षालंकारौं' इति साहित्यविद्याधरी
  2. 'अत्र विरोधाभासोलंकारः' इति साहित्यविद्याधरी।