पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३०२
नैषधीयचरिते

कमविनश्वरशोभमिमं प्रत्यक्षदृश्यमस्या मुखेन्दं मुखचन्द्रं एकशेषं एकश्चासौ शेषश्च तथाभूतमस्थापयत्स्थापितवान् किम् । अमावास्यायां सर्वथा चन्द्रादर्शनादियमुत्प्रेक्षा । क्षयित्वाञ्चन्द्रविम्वानां स्थानेऽविनश्वरशोभत्वात्तत्कार्यकारित्वाच्चास्या मुखलक्षणमिन्दुं स्थापितवानित्यर्थः । क्षयित्वादपि चन्द्रो मुखतुल्यो न भवतीति भावः । अन्योऽपि कारुः स्वयमेव कृतं वस्तु अनुत्तमं ज्ञात्वा विनाश्य सुन्दरतरं स्थापयति । अथ च (सूत्रेणापि) सरूपाणां मध्ये कानिचित्सरूपाणि विलुप्यैकशेषः क्रियते । यश्चैकः शिष्यते स तत्कार्यकारी भवति । लोपंलोपम् 'आभीक्ष्ण्ये णमुल्च' इति ण[१]मुलू ॥

  कपोलपत्रान्मकरात्सकेतुर्भूभ्यां जिगीषुर्धनुषा जगन्ति ।

  इहावलम्ब्यास्ति रतिं मनोभू रज्यद्वयस्यो मधुनाधरेण ॥६०॥

 कपोलेति ॥ मनोभूः कामो रतिं प्रीतिम् , अथ च स्वप्रियामवलम्ब्याङ्गीकृत्य तया सह इह भैमीमुखेऽस्ति । किंभूतः-कपोललिखितात्पत्रावलीरूपान्मकरात् सकेतुः सचिह्नः । तथा भ्रूवैव धनुषा जगन्ति जिगीषुः । तथा-अधरेणौष्ठलक्षणेन मधुना वसन्तेन कृत्वा रज्यन् सानुरागो वयस्यो वसन्तलक्षणं मित्रं यस्य । आधरेण अधरसंबन्धिना मधुना रसेन कृत्वा रज्यन् शोणो वयस्यो मदनवृद्धिकरत्वादधर एव यस्य । भैमीमुखे सकलकामचिह्नदर्शनादत्र मदनो वसतीत्यनुमीयत इत्यर्थः । भैमीमुखावलोकनात्सबलस्य कामस्योत्पत्तिर्भवतीति भावः । रज्यदिति 'कुषिरजोः-' इति श्यन्परस्मैप[२] दे ॥

श्लोकपञ्चकेन कर्णौ वर्णयति-

  वियोगबाष्पाञ्चितनेत्रपद्मच्छद्मार्पितोत्सर्गपयःप्रसूनौ ।

  कर्णौ किमस्या रतिवत्पतिभ्यां निवेद्यपूपौ विधिशिल्पमीहक्॥६१॥

 वियोगेति ॥ अस्याः कर्णौ रतिश्च तत्पतिः कामश्च ताभ्यां निवेद्यस्योपहारस्य संबन्धिनौ पूपौ मण्डको ईदृक् किं विधिशिल्पं ब्रह्मनिर्माणम् इति संभावना । एतदर्थं ब्रह्मणा किमेतौ निर्मितावित्यर्थः । किंभूतौ-वियोगजनिता ये बाष्पा अश्रूणि तैरञ्चितस्य पूजितस्य नेत्रपद्मस्य छद्मना व्याजेनार्पिते वितीर्णे उत्सर्गार्थ दानार्थं पयःप्रसूने जलपुष्पे ययोस्तौ । अश्रु दानजलम्, नेत्रे च दानपुष्पे ययोः समीपे तिष्ठतः। नैवेद्यसमीपे जलपुष्पे भवतः । आकर्णनेत्रत्वादित्यर्थः। कर्णदर्शनादपि मदनोत्पत्तिरिति भावः । 'पूपोऽपूपः पिष्टकः स्यात्' इत्यमरः । निवेद्यम् अर्हार्थे ण्यत् [३]

  इहाविशद्येन पथातिवक्रः शास्त्रौघनिष्यन्दसुधाप्रवाहः ।

  सास्याः श्रवःपत्त्रयुगे प्रणालीरेखैव धावत्यभिकर्णकूपम् ॥ ६२ ॥



  1. 'अत्रातिशयोक्तिव्यतिरेकोत्प्रेक्षालंकाराः' इति साहित्यविद्याधरी।
  2. 'अत्रातिशयोक्तिरूपकालं- कारौ' इति साहित्यविद्याधरी।
  3. 'अत्र छेकानुप्रासरूपकापड्त्युत्प्रेक्षालंकाराः' इति साहित्यविद्याधरी