पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२९८
पधीयचरित

नाधीयते न पठ्यते किम् , अपि तु पठ्यत एव । कषायरसाम्रादिमञ्जरीभक्षणेन पिकस्य मधुरस्वरत्वं सूचितम् । पिकः पञ्चमं स्वरं पठति स भैमीस्वर एवेदानीमाप तेनाभ्यस्यते परं तु नायातीत्यर्थः । कोकिलस्वराधिकौमीस्वराकर्णनमात्रेण मदनाद्वैतमेव भवतीति भावः । अन्येनापि भिक्षाभुजा ब्राह्मणेनाद्वैतप्रतिपादिका 'एकमेवाद्वितीयं ब्रह्म' इत्यादिकोपनिषत् ब्राह्मणश्रेष्ठादधीयते । न विद्यते द्वयं यस्य तदद्वयं प्रसूनबाणलक्षणं यदद्वयमिति समासः। द्विजराजतः, 'आख्यातोपयोगे' इत्यपादानत्वम् । भिक्षाणां समूहः 'भिक्षादिभ्योऽण[१]

  पद्माङ्कसद्मानमवेक्ष्य लक्ष्मीमेकस्य विष्णोः अयणात्सपत्नीम् ।

  आस्येन्दुमस्या भजते जिताब्जं सरस्वती तद्विजिगीषया किम॥४९॥

 पद्मेति ॥ सरस्वती अस्या भैम्याः तस्याः सपत्न्या विजिगीषया जेतुमिच्छया, सपनीगृहादुत्तमं गृहं मम कथंकारं स्यादिति मनीषया सौन्दर्येण जितानं जितपद्ममास्येन्दुं मुखचन्दं श्रयत सेवते किं वितर्के । किं कृत्वा-एकस्य विष्णोरुभाभ्यां श्रयणादात्मनः सपत्नी लक्ष्मीं पद्मस्याङ्कः क्रोडः स एव सद्म स्थानं यस्यास्तामवेक्ष्य । चन्द्रोदये कमलसंकोचाञ्चन्द्रोऽपि जिताञ्जो भवति । यद्वा जितोऽञ्जश्चन्द्रो येन । चन्द्रेण कमलं जितं सोऽप्यनेन जित इति तदाश्रयणाल्लक्ष्मीर्वाण्याऽतितरां जितेत्यर्थः । वक्रोक्त्यादिचातुर्यमस्यामेवास्ति, नान्यस्यामिति भावः । अन्यापि सपत्नीगृहाद्युत्तमं विलोक्येर्ष्यया स्वगृहादि तस्मादप्युत्तमं करोति । 'अब्जो जैवातृकः सोमः' इत्यम’[२] ’रः ॥

  कण्ठे वसन्ती चतुरा यदस्या सरस्वती वाचयते विपञ्चीम् ।

  तदेव वाग्भूय मुखे मृगाक्ष्याः श्रोतुः श्रुतौ याति सुधारसत्वम् ॥ ५०॥

 कण्ठे इति ॥ अस्याः कण्ठे वसन्ती वीणावादने चतुरा सरस्वती यत् विपञ्ची वीणां पादयते तदेव वीणावादनमेव मृगाझ्या मुखे वाग्भूय वाणीत्वेन परिणमय्य श्रोतुः श्रुतौ कर्णे सुधारसत्वं याति । वीणावन्मधुरस्वरेयमिति भावः । वाग्भूयेत्यत्र च्व्यन्तत्वाद्गतिसंज्ञायां समासः[३] ’ ॥

चिबुकं वर्णयति-

  विलोकितास्या मुखमुन्नमय्य किं वेधसेयं सुषमासमाप्तौ।

  धृत्युद्भवा यच्चिबुके चकास्ति निम्ने मनागङ्गुलियन्त्रणेव ॥ ५१॥

 विलोकितेति ॥ विधिना इयं भैमी सुषमासमाप्तौ मुखनिर्माणशोभासमाप्तौ सत्यां मुखमुन्नमय्य कियदूर्ध्वीकृत्य विलोकितमास्यं यस्या एवंभूता किम् । अलंकरणसमाप्तौ शृङ्गारकारिणी मुखमुन्नमय्यालंकारशोमां विलोकयति, विधिनांपि तथैव


  1. 'अत्र समासोक्तिरूपकव्यतिरेकालंकारसंकरः' इति - साहित्यविद्याधरी ।
  2. 'अत्र रूपकसमासोक्तयुत्प्रेक्षालंकारसंकरः' इति साहित्यविद्याधरी।
  3. ’'अत्रातिशयोक्तिरलंकारः' इति साहित्यविद्याधरी।