पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२९५
सप्तमः सर्गः।

  मध्योपकण्ठावधरोष्ठभागौ भातः किमप्युच्छसितौ यदस्याः ।

  तत्स्वप्नसंभोगवितीर्णदन्तदंशेन किं वा न मयापराद्धम् ॥ ४० ॥

मध्योपेति ॥ अस्या भैम्या अधरोष्टस्य मध्योपकण्ठौ मध्यसमीपवर्तिनी अधरोप्टभा- गावधरोष्ठप्रदेशौ किमपि किंचित् उच्छसिताबुच्छूनौ यद्यस्मात् भातः शोभेते । तत्तस्माद्धेतोः स्वप्ने यो भैमीसंभोगस्तत्र वितीणों दत्तो दन्तदंशो दन्तक्षतं येन एवंविधेन मया वा मयैव किं नापराद्धम् । किंतु तादृगपराधो मयैव कृतः । वाशब्दः सं- भावनायां वा । स्वप्नसंभोगे वितीर्णेन दन्तक्षतेन कृत्वेति वा । अधरोष्ठस्य मध्यसमीप- वर्तिनोः पार्श्वदेशयोः किंचिदुच्छ्रनता सामुद्रिको गुणः, दन्तक्षतेनाप्युच्छूनता भवति । स्वप्ने प्रत्यहं मयेयं संभुज्य[१]ते ॥

  विद्या विदर्भेन्द्रसुताधरोष्ठे नृत्यनित कायन्तरभेद[२]भाजः ।

  इतीव रेखाभिरपश्रमस्ताः संख्यातवान्कौतुकवान्विधाता ॥४१॥

 विद्या इति ॥ अन्तरभेदभाजः अवान्तरभेदसहिताः कति विद्याः कियत्यो विद्याः विदर्भेन्द्रसुताधरोष्टे भैम्यधरोष्टे नृत्यन्ति स्फुरन्ति जाग्रदृपेण वर्तन्ते इतीव इति स्वयमेव संदिहानः, इवेति लोकसंदेहनिवृत्त्यर्थं वा, कौतुकवान् अपश्रमः श्रमरहितः विधाता ब्रह्मा अधरोष्ठवर्तिनीभी रेखाभिः कृत्वा इयत्यो विद्या विद्यन्त इति ता विद्याः संख्यातवान्गणितवान् । रामणीयकहेतुभूता रेखा विद्यागणनार्थत्वेनोत्प्रेक्षिताः। अन्तरे ओष्ठमध्य इति वा[३]

  संभुज्यमानाद्य मया निशान्ते स्वभेनुभूता मधुराधरेयम् ।

  असीमलावण्यरदच्छदेत्थं कथं मयैव प्रतिपद्यते वा ॥ ४२ ॥

 संभुज्येति ॥ निशान्ते गृहमध्ये राज्यवसानसमये वा अद्य स्वप्ने मया संभुज्यमाना कृतोपभोगा इयं भैमी चुम्बनवशान्मधुराधरा अमृतोष्टी सुन्दराधरा वानुभूता । इत्थमनिर्वचनीयप्रकारेण असीमलावण्यो निर्मर्यादसौन्दयों रदच्छदोऽधरोष्ठो यस्याः सेयं मयैव कथं वा प्रतिपद्यते प्रतीयते । आश्चर्यमेतदित्यर्थः। स्वप्ने यादृशी सुन्दराधरत्वेनानुभूता तादृश्येव जाग्रदवस्थायामपीत्याश्चर्यम् । अत्र हेतुर्निशान्तपदम् । 'गोविसर्जनवेलायां दृष्ट्वा सद्यः फलं भवेत्' इति । अथ च या मया मधुरसंयुक्ताधरानुभूता सा निर्मर्यादो लवणरसभावो यस्यैवंविधोऽधरोष्ठो यस्याः सा मयैव कथमनुभूयत इत्याश्चर्यम् । मधुररसलवणरसयोः परस्परविरोधादि[४] त्यर्थः ॥


  1. 'अत्रोत्प्रेक्षालंकारः' इति साहित्यविद्याधरी।
  2. 'अन्तरलाभभाजः' इति पाठः साहित्यविद्याधरीसंमतः ।
  3. 'अत्रोत्प्रेक्षा हेतुरलंकारः' इति साहित्यविद्याधरी
  4. 'अत्र विरोधाभासोलंकारः' इति साहित्यविद्याधरी।