पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२९२
नैषधीयचरित

णादिति । अन्योपीष्वादिसारो रसरूपः काष्टयन्त्रेणाकृष्यते । निमेषरूपं ब्रह्मणा सारग्रहणार्थ यन्त्रमेव निर्मितस् । एणगुत्पलयोः पूर्वं द्वन्द्वः । तत्रैणदृशोरुत्पलापेक्षया दृगुपमानेन्तरङ्गत्वादभ्यर्हितत्वादेणदृक्पदस्य पूर्वनिपातः, अजायदन्तस्याप्युत्पलशब्दस्य न । एणेति जातिमात्रविवक्षया[१]

  ऋणीकृता किं हरिणीभिरासीदस्याः सकाशान्नयनवयश्रीः ।

  भूयोगुणेयं सकला बलाद्यत्ताभ्योनयालभ्यत बिभ्यतीभ्यः॥३३॥

 ऋणीति ॥ हरिणीभिरस्याः सकाशान्नयनद्वयस्य श्रीः शोभा ऋणीकृता वृद्ध्या गृहीता आसीत्किम् । कुतः यद्यस्मादनया भैम्या बिभ्यतीभ्यस्ताभ्यो हरिणीभ्यः सकला संपूर्णा कलया विलासेन सहिता वा भूयोगुणा बहुगुणा इयं नयनद्वयश्रीः बलास्कारेणालभ्यत लब्धा । अथ च सकला धनवृद्धिसहिता भूयोगुणा त्रिगुणा चतुर्गुणा वा विभ्यतीभ्यो वलात्कारेण लब्धा । उत्तमर्णेन हि त्रस्यद्भ्योधमर्णेभ्यो वृद्धिसहिता त्रिगुणा चतुर्गुणा वा संपत् वलात्कारेण लभ्यते । भूयोगुणत्वं याज्ञवल्क्योक्तं व्यवहाराध्याये द्रष्टव्यम् 'अशीतिभागो वृद्धिः स्यात्' इत्यादिना । अनयापि तादृशी लब्धा तस्मात्पूर्वमृणस्वरूपेण गृहीतेति सत्यम् । त्रस्यन्तीभ्योऽतएव चञ्चलनयनाभ्योपि हरिणीभ्यः सकाशादेतन्नेत्रे सुन्दरे, अतिचञ्चले चेति भावः[२]

  दृशौ किमस्याश्चपलस्वभावे न दूरमाक्रम्य मिथो मिलेताम् ।

  न चेत्कृतः स्यादनयोः प्रयाणे विघ्नः श्रवःकूपनिपातभीत्या॥३४॥

दृशाविति ॥ चपलस्वभावे अतिचञ्चलस्वभावे अस्या दृशौ दूरमाक्रम्य दूरं गत्वा शिरः परिभ्रम्य मिथोन्योन्यं किं न मिलेताम् , अपि तु मिलितौ भवेतामेव । परं चेद्यदि अनयोः प्रयाणे दूरगमने विषये श्रवकूपयोः कर्णलक्षणकूपयोः निपातः पतनं तस्माद्भीत्या भयेन विघ्नः कृतो न स्यात् । भयरूपेण प्रतिबन्धकेन न मिलिते । नेत्रे आकर्णपूर्णे चञ्चलतरे चेति भावः। अन्योऽपि कूपादिपतनभीत्या परावर्तते । क्रियातिपत्ति विवक्षणीया[३]

  केदारभाजा शिशिरप्रवेशात्पुण्याय मन्ये मृतमुत्पलिन्या ।

  जाता यतस्तत्कुसुमेक्षणेयं यातश्च तत्कोरक दृक्चकोरः॥३५॥

केदारेति ॥ केदारभाजा व्रीहिक्षेत्रभाजा आलवालभाजा वा, अथ च केदाराख्य- देवसेविन्या उत्पलिन्या कमलिन्या शिशिरोः प्रवेशादद्य च शिशिरे हिमे प्रवेशा- द्धिमचूर्णनाद्धेतोः पुण्याय मृतं पुण्यं प्राप्तुं मृतम् । तजन्यसुकृतविशेषजन्योत्तमफल- प्राप्तय इत्यर्थः । इत्यहं मन्ये जानामि । यतो यस्मादियं तस्याः कमलिन्याः कुसुमे एव


  1. 'अत्र छेकानुप्रासरूपकोत्प्रेक्षातिशयोक्तिरलंकारः' इति साहित्यविद्याधरी
  2. 'अत्र छेकानुप्रासोत्प्रेक्षासमासोक्त्यलंकाराः' इति साहित्यविद्याधरी
  3. 'अत्रोत्प्रेक्षासमासोक्त्यलंकारः' इति साहित्यविद्याधरी।