पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८९
सप्तमः सर्गः

भ्रत्वं तदैव दृढत्वमिति चकारार्थः । पुष्पत्वदशायां निःसारस्यापि धनुपो भैमाभ्रभवनदशायां ससारत्वं जातमित्यर्थः । कथं ससारत्वमित्यत आह-यद्यस्मात् निजां स्वीयामप्लोपदशामदाहावस्थामपेक्ष्य संप्रति दग्धस्य भैर्माभ्रूभवनसमये अनेन धनुषा अधिकवीर्यताऽतिशयितपराक्रमत्वं आणि अजितम् । अदग्धपुष्परूपचापापेक्षया दग्धस्य श्यामीभवत्केसरशेषस्य भैमीभ्रूभवतः तस्यैव चापस्य जगद्वशीकरणेधिकसामर्थ्यदर्शनादेवमनुमीयत इति भावः। घनत्वं दृढत्वं सारत्वं श्रेष्ठत्वं च प्रापे इति वा । अथच घनसारभावः कर्पूरत्वं च । यतः -कर्पूरोपि निजामदाहावस्थामपेक्ष्य दाहावस्थायामधिकवीर्यतामतिशयितसौगन्ध्यं शीतलत्वं चार्जयति । 'अथ कर्पूरमस्त्रियाम् । धनसारः' इत्यमरः[१]

  स्मारं धनुर्यद्विधुनोज्झितास्या यास्येन भूतेन च लक्ष्मलेखा।

  एतद्भ्रूवौ जन्म तदाप युग्मं लीलाचलत्वोचितवालभावम् ॥२६॥

 स्मारमिति ॥ यत् स्मारं मदनसंवन्धि धनुः तदेकम्, अस्या आस्येन भूतेन वदनत्वं गत्वेन विधुना चन्द्रेण उज्झिता त्यक्ता या च लक्ष्मलेखा कलङ्करेखा भैम्या मुखस्य निष्कलङ्कत्वात्तन्मुखीभवनौचित्याय चन्द्रेण त्यक्ता या लक्ष्मलेखेति द्वितीयं त्यक्तम् । तत् मदनचापचन्द्रलक्ष्मलेखालक्षणं युग्मं द्वयं कर्तृं एतद्भवौ भैमीभ्रुवौ भैमीभ्रूरूपं जन्म आप। भैमीभ्रूस्वरूपेण तद्द्वयं परिणतमित्यर्थः । किंभूतं जन्म-लीलया विलासेन चञ्चलत्वं यत्र तदुचितो वालभावः केशसत्ता यस्मिन् । लीलात्वेन विलासत्वेन चपलत्वेन चेष्टया च उचितस्तदुभययोग्यो बालभावः केशसत्ता यस्मिञ्जन्मनि तत्तेन युग्मेन लब्धमित्यर्थ इति वा । जन्मप्राप्तौ क्रीडाचञ्चलत्वोचितो बालभावः शैशवं भवति । लेखापदं साम्यार्थम् । भैमीभ्रुवौ कामचापचन्द्रलक्ष्मलेखाकारे सविलासे कामजनिके चेति भावः । 'भावः सत्तास्वभावयोः' इत्यमरः ॥

 नवभिर्दृ्शौ वर्णयति-

  इषुत्रयेणैव जगत्रयस्य विनिर्जयात्पुष्पमयाशुगेन ।

  शेषा द्विवाणी सफलीकृतेयं प्रियादृगम्भोजपदेभिषिच्य ॥२७॥

 इष्विति ॥ पुष्पमयाशुगेन पुष्परूपबाणेन कामेन क; इषुत्रयेणैव पुष्परूपेण बाण- त्रयेणैव जगत्रयस्य विनिर्जयाद्वशीकरणादेकैकेन वाणेन एकैकस्य जगतो जयाद्धेतो-. बाणत्रयस्य सार्थक्यात्संभावितवैयर्थ्या पञ्चबाणत्वाच्छेषावशिष्टा इयं पुरो दृश्यमाना द्विवाणी प्रियाया भैम्या दृगम्भोजपदे नयनद्वयरूपकमलस्थानेभिषिच्यारोप्य सफली- कृता सार्थकीकृता । उत्तमस्थानप्रापणेन तस्याः साफल्यं जातमित्यर्थः । पुष्पमयबा- णत्वाददृगम्भोजयोरपि बाणत्वमुचितम् । अयमभिप्रायः-बाणत्रयेण जगत्रयीजयात्रया- णां साफल्यम्, अवशिष्टं बाणद्वयं भैमीनेत्राम्भोजयोरभिषिच्य कामेन सार्थकीकृतम् । तत्र त्रयेण जगत्रयं पराजितमित्याश्चर्यं न, किं तु वैयर्थ्यसंभावनापि । द्वयेन जगन्नयं


  1. 'अत्रातिशयोक्तिरनुमानमलंकारः' इति साहित्यविद्याधरी।