पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८२
नैषधीयचरिते

 वास इति ॥ सा नलदृक् इतीव कारणात्तत्पदयोः भैमीचरणयोः पपात प्रणामं चकार । इति किम्-हे भैमि, वासो वसनमुत्तमपट्टदुकूलविशेषः परं केवलं नेत्रम्, अथ च नेत्रशब्दवाच्यम् । अहं नेत्रं न किमु, अपितु अहमपि नेत्रं नेत्रशब्दवाच्यं यद्भवामि तत्तस्मादुभयोरपि नेत्रशब्दवाच्यत्वलक्षणाद्धेतोः (हे भैमि,) त्वं नेत्रेण वसनेनेव मयापि प्रयोज्येन उरो वक्षः, नितम्बो जघनपश्चाद्भागः, ऊरू च एतेषां समाहार उरोनितम्बोरु आलिङ्गय वेष्टय अथच दर्शयस्व प्रसादं च कुरु तदालिङ्गनार्थं च ममोपरि प्रसन्ना भव इति । अन्योऽपि स्वसमानस्य कस्यचिद्राजादेः सकाशादुत्तमपदप्राप्तिं दृष्ट्वा स्वस्यापि तल्लाभार्थं राज्ञश्चरणयोः पतति मह्यमप्येतद्देयमिति प्रार्थयते च । उरोनितम्बोरु विलोक्य तच्चरणावपि विलोकयति स्मेति भावः । प्राण्यङ्गत्वादेकवद्भावे नपुंसकत्वं च[१]

  दृशोर्यथाकाममथोपहृत्य स प्रेयसीमालिकुलं च तस्याः।

  इदं प्रमोदाद्भुतसंभृतेन महीमहेन्द्रो मनसा जगाद ॥ ९ ॥

 दृशोरिति ॥ अथ स महीमहेन्द्रो भूमीन्द्रो नलः प्रमोदो भैमीविलोकनेनानन्दः, सौ. न्दर्यदर्शनादद्भुतमाश्चर्य च ताभ्यां संभृतेन पूर्णेन मनसा इदं वक्ष्यमाणं जगादाचिन्तयत् । मनसैव तामवर्णयदित्यर्थः । किं कृत्वा-प्रेयसी भैमी तस्या आलिकुलं सखीसमूहं च दृशोनयनयोः यथाकाममभिलाषमनतिक्रम्य (नयनाभ्यामेव) उपहृत्योपायनीकृत्य ॥

 तदेवाह-

  पदे विधानुर्यदि मन्मथो वा ममाभिषिच्येत मनोरथो वा ।

  तदा घटेतापि न वा तदेतत्प्रतिमतीकाद्भुतरूपशिल्पम् ॥ १० ॥

 पद इति ॥ यदि जगन्निर्माणशीलस्य विधातुर्ब्रह्मणः पदेऽधिकारे मन्मथो वाभिषिच्येत, मम मनोरथो वाभिषिच्येत, तदापि तर्ह्यपि तदनिर्वचनीयम्, एतदृश्यमानं एतस्या वा प्रतिप्रतीकं प्रत्यवयवं अतिसुन्दरत्वादद्भुतमाश्चर्यकारि रूपं लावण्यं तस्य शिल्पं निर्माणं घटेत न वा घटेत । ब्रह्मणाप्येतत्प्रत्यवयवं सौन्दर्यं कर्तुं न शक्यत इत्यर्थः । ईदृक् सौन्दर्यं कदापि कुत्रापि न दृष्टमिति भावः [२]

  तरङ्गिणी भूमिभृतः प्रभूता जानामि शृङ्गाररसस्य सेयम् ।

  लावण्यपूरोऽजनि यौवनेन यस्यां तथोच्चैस्तनताघनेन ॥ ११ ॥

 तरङ्गिणीति ॥ घनेन निबिडेन यौवनेन यस्यां भैमीलक्षणायां तरङ्गिण्यां लावण्यपूरोऽजनि जनितः । तथा उच्चैः स्तनौ यस्यां तस्या भाव उच्चकुचत्वमजनि । सेयं शृझारलक्षणस्य रसस्य तरङ्ग उद्रेकः तद्वती अथ च नदी एवंभूता भीमनानो भूमिभृतो


  1. 'अत्रोत्प्रेक्षालंकारः' इति साहित्यविद्याधरी
  2. 'अत्र भैमीरूपशिल्पस्य प्रसिद्धब्रह्मसंबन्धेप्यसंबन्धोक्तेः, तया मन्मथाद्यसंबन्धेपि संभावनया तत्संबन्धोक्तेश्च तद्रूपकातिशयोक्तिभेदौ' इति जीवातुः।