पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८१
सप्तमः सर्गः।

 मग्नेति ॥ अस्य नलस्य दृष्टिः कशीयः अतिशयेन कृशं तस्या भैम्या मध्यं चिरेण चिरकालेन अमुञ्चतात्यजत् । मध्यं विलम्वेन तत्याजेत्यर्थः । अत्राप्युत्प्रेक्षते-स्खलनात्पतनाद् भिया भयेन नु किम् । अतिकृशमेतच्छीघ्रं चेत्त्यक्ष्यामि तर्हि पतिष्यामीति बुद्ध्या किं विलम्बेनात्यजत्। किंभूता दृष्टिः-तन्मुखेन्दोःसुधायां मग्ना किमु मुखेन्दावेव विलम्बिता । तथानन्तरं मृणालसूत्रेणापि दुर्लभावकाशे तत्कुचयोरन्तर्मध्ये लग्ना संबद्धा सती निर्गन्तुमशक्तत्वात्स्थिता विलम्बिता । पूर्वं यदङ्गं विलोकितं तदङ्गं सुन्दरत्वात्परित्यक्तुं न शक्ता, किं तु पुनःपुनस्तदेवावलोकयति स्मेति भावः । क्रशीयसः सकाशात्स्खलनं क्रशीयःस्खलनमिति वा [१]

  प्रियाङ्गपान्था कुचयोर्निवृत्त्य निवृत्त्य लोला नलदृग्भ्रमन्ती।

  बभौतमां तन्मृगनाभिलेपतमःसमासादितदिग्भ्रमेव ॥ ६ ॥

 प्रियेति ॥ नलदृक् एवंभूता सती बभौतमामतितरां शुशुभे । किंभूता-प्रियाया भैम्या अङ्गस्य प्रत्यङ्गं पान्था नित्यपथिकी । अत एव लोला चञ्चला । अथ च सस्पृहा सती निवृत्त्य निवृत्त्य व्याघुट्य व्याघुट्य कुचयोः भ्रमन्ती । उत्प्रेक्षते, किंभूतेव-तयोः कुचयोर्मुगनाभिलेपः कस्तूरिकालेपः तल्लक्षणं तमोऽन्धकारः तेन कृत्वा समासादितः प्राप्तः दिग्भ्रमो दिङ्भोहो यया एवंभूतेव । अन्योऽपि पान्थस्तमसा प्राप्तदिङ्भोहो भ्रमन्निवृत्त्य निवृत्त्य पूर्वमेव स्थानं प्राप्नोति । सर्वावयवावलोकनतत्परापि कुचावेवावलोकयति स्म । कुचौ त्यक्तुं न शशाकेति भावः । 'लोलश्चलसतृष्णयोः' इत्यमरः । नित्यं पन्थानं गच्छति पान्थः, 'पन्थो ण नित्यम्' इति णः । ततष्टाप् । बभौतमाम् , 'किमेत्तिङव्यय-' इत्यादिनामुः[२]

  विभ्रम्य तच्चारुनितम्बचके दूतस्य हक्तस्य खलु स्खलन्ती।

  स्थिरा चिरादास्त तदूरुरम्भास्तम्भावुपाश्लिष्य करेण गाढम्॥७॥

 विभ्रम्येति ॥ तस्याः चारुणि सुन्दरे नितम्बरूपे चक्रे विनम्य परिभ्रम्य स्खलन्ती खलु पतन्तीव तस्य दूतस्य नलस्य दृग्दृष्टिः तदूरुलक्षणौ रम्भास्तम्भौ कदलीस्तम्भौ करेण रश्मिना कृत्वा गाढं निबिडमुपाश्लिष्यालिङ्ग्य चिराच्चिरकालं स्थिरा निश्चला आस (स्त) बभूव । अन्यापि चक्रभ्रमणं प्राप्य पतन्ती सती हस्तेन स्तम्भं गाढमा- लिङ्ग्य चिरं स्थिरा भवति । नितम्बं विलोक्यादरेण तदूरू पश्यति स्मेति भावः[३]

  वासः परं नेत्रमहं न नेत्रं किमु त्वमालिङ्गय तन्मयापि ।

  उरोनितम्बोरु कुरु प्रसादमितीव सा तत्पदयोः पपात ॥ ८ ॥


  1. 'अत्रोत्प्रेक्षारूपकालंकारः' इति साहित्यविद्याधरी । 'उत्प्रेक्षात्रयस्य सजातीयंससृष्टिः' इति जीवातुः।
  2. 'अत्र रूपकोत्प्रेक्षालंकारः' इति साहित्यविद्याधरी
  3. 'अत्रोत्प्रेक्षारूपकालंकारः । करेणेति श्लिष्टम्' इति साहित्यविद्याधरी । 'अत्र दृष्टिविशेषणसाम्याड्रमणक्रीडाकारिबालकप्रतीतेः समासोक्तिः, तस्याः 'चारु(नितम्बचक्रे, उरू)रम्भास्तम्भौ' इति रूपकेण संकरः' इति जीवातुः।