पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८०
नैषधीयचरिते

वयवसौन्दर्यदर्शनादानन्दः, तस्माञ्चाश्रुपरम्परा जाता, तया नलनयनाभ्यां किमपि न दृष्टमित्यर्थः । समुद्रे जलप्रवाहे च निमजनमुचितम्[१]

 नेत्रप्रमोदमुक्त्वा मनःप्रमोदमाह-

  ब्रह्माद्वयस्यान्वभवप्रमोदं रोमाग्र एवाग्रनिरीक्षितेस्याः।

  यथोचितीत्थं तदशेषदृष्टावथ स्मराद्वैतमुदं तथासौ ॥ ३ ॥

 ब्रह्मेति ॥ असौ नलः अस्या भैम्या रोम्णोऽप्यग्र एव अग्रे प्रथमं निरीक्षिते सति न विद्यते द्वयं यस्य तद्वयं ब्रह्म च तदद्वयं च ब्रह्माद्वयं तस्य । ब्रह्मैक्यस्येत्यर्थः। तस्य प्रमोदमानन्दं अन्वभवदनुवभूव । अथानन्तरं इत्थमनेन प्रकारेण तस्या भैम्या अशेषा सकला या दृष्टिदर्शनं तस्यां सत्यां अशेषभैमीदर्शने सति यथा यादृशी औचिती भवति तथा द्वैतं द्वयोर्भावो द्विता द्वितैव द्वैतं तन्न विद्यते यस्यासावद्वैतः स्मरश्वासावद्वैतश्च स्मरस्य द्वैतराहित्यं वा तस्य मुदं हर्षमन्वभवत् । मदनैक्यजनितमानन्दमनुबभूवेत्यर्थः। यस्या निकृष्टस्य रोमानस्यैव निरीक्षणे ब्रह्माद्वैतानन्दो भवति, तस्या रमणीयसकलावयवदर्शने ब्रह्माद्वैतानन्दादधिको मदनाद्वैतानन्द एव भवितुं समुचित इत्यर्थः। सर्वावयवदर्शने मदनानन्देऽमज्जदिति भावः । तेषां रोम्णामशेषदृष्टौ सत्यामिति वा । द्वैतम् , प्रज्ञादित्वात्स्वार्थेऽण्[२]

  वेलामतिक्रम्य पृथु मुखेन्दोरालोकपीयूषरसेन तस्याः ।

  नलस्य रागाम्बुनिधौ विवृद्धे तुङ्गो कुचावाश्रयतः स्म दृष्टी ॥४॥

व्रेलामिति ॥ नलस्य दृष्टी दृशौ तस्या मुखेन्दोः आलोको विलोकनं तल्लक्षणेन पीयूषरसेनामृतरसेन विलोकनलक्षणं यदमृतं तस्मिन् वा रसेन तद्विषयिण्या प्रीत्या कृत्वा पृथुं महती वेलां दूत्यसमयरूपामतिक्रम्य नलस्य रागाम्बुनिधावनुरागसमुद्रे विवृद्ध वृद्धिं गते सति तुङ्गावुच्चौ कुचौ आश्रयतः स्म । दूत्यसमयमविचार्य मुखचन्द्रावलोक नविवृद्धेनानुरागेण तुङ्गो कुचौ नलोऽवलोकयति स्मेति भावः । चन्द्रस्य प्रकाशलक्षणेनामृतरसेन महती मर्यादामतिक्रम्य समुद्रे वृद्धिं गते सत्याप्लवनभयादन्योपि तुङ्गं स्थानमाश्रयति । 'दृष्टिः' इति क्वचित्पाठः[३]

  मग्ना सुधायां किमु तन्मुखेन्दोर्लग्ना स्थिता तत्कुचयोः किमन्तः ।

  चिरेण तन्मध्यममुञ्चतास्य दृष्टिः ऋशीयः स्खलनाद्भिया नु ॥५॥


  1. 'अत्र ग्रूपस्यैकस्याधेयस्य प्रियावयवाद्यनेकाधारवृत्तित्वभेदकथनात्पर्यायालंकारभेदः' इति जीवातुः
  2. 'विषमोलंकारः । उपमापि' इति साहित्यविद्याधरी । 'अत्र ब्रह्मानन्दस्मरानन्दयोरेकस्मिन्नले क्रमेण वृत्तिकथनात् 'एकस्मिन्नथवानेकम्' इत्युक्तलक्षणो द्वितीयः पर्यायालंकारभेदः' इति जीवातुः
  3. ’अत्र श्लेषरूपकातिशयोक्तिरलंप्रतीतेः समासोक्तिरलंकारः । अत्र इष्टिविशेषणसाम्याचन्द्रिदये समुद्रवृद्भौ तन्मजनवादुत्सेधानंकारः समासोक्तिरलंकारः । तेन चाब्धिमज्जनभयादिवेत्युत्प्रेक्षा व्यज्यत इत्यलंकारेणालंकारध्वनिः इति जीवातुः ।