पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७९
सप्तमः सर्गः।

 श्रीहर्षमिति ॥ सहजात्सोदात्खण्डनलक्षणात्खण्डत इक्षुविकाराच्छर्कराविशेषादपि क्षोदक्षमे उद्धर्षणसहे परीक्षाक्षमे यथा यथा घृष्यते, तथा तथा सरसेत्यर्थः । षष्ठः पण्णां पूरणः व्यगलत्समाप्त इत्यर्थः । 'स्यात्खण्डः शकले चेक्षुविकारे मणिदोषयोः' इति विश्वः । षष्ठः पूरणे डटि 'षट्रकति-' इत्यादिना थुक् । अस्मिन्सर्गे दूतगुणा धर्मशास्त्रद्वारेणोक्ताः॥

 इति श्रीमन्नरसिंहपण्डितात्मजनारायणकृते नैषधीयप्रकाशे पष्ठः सर्गः ॥

सप्तमः सर्गः।

 इत्थमिन्द्रदूतीनिराकरणेन भैम्याः स्वस्मिन्ननुरागं दृढं परीक्ष्य तुष्टो नलो भैमीमेवावर्णयदिति वक्तुं सप्तमं सर्गमारभते-

  अथ प्रियासादनशीलनादौ मनोरथः [१]पल्लवितः पुरा यः ।

  विलोकनेनैव स राजपुत्र्याः पत्या भुवः पूर्णवदभ्यमानि ॥१॥

 अथेति ॥ अथेन्द्रदूतीनिराकरणानन्तरं यो मनोरथः प्रियाया भैम्या आसादने प्राप्तिविषये शीलनादौ च तेन तेन विशेषेण रूपादिपरिकल्पने विषये आदिपदेनालिङ्गनादिसंभोगविषये पूर्व पल्लवितः पल्लवयुक्तो जातः । भैमी कथं प्राप्नोमि, कथं वा तस्या विशिष्टं भावादिकं जानामीति चिरमुदितः पूर्वमासीत् । स मनोरथः भुवः पत्या राज्ञा नलेन राजपुत्र्या विलोकनेनैव पूर्णवत्परिपूर्ण इव फलित इवाभ्यमानि संमानितः। प्राप्तिं विनैव दर्शनमात्रेण प्राप्त्यादिजन्यमानन्दं प्रापेति भावः । पल्लवितशब्देन मनोरथस्य वृक्षत्वं सूचितम् । अन्योप्यारोपितं पल्लवितं फलितं च दृष्ट्वात्यन्तं संतुष्यति । आसादनं च शीलनादि चेति समास एकवद्भावः । अन्यथा शीलनशब्दस्य पूर्वनिपातापातात्[२]

  प्रतिप्रतीकं प्रथमं प्रियायामथान्तरानन्दसुधासमुद्रे ।

  ततः प्रमोदाश्रुपरम्परायां ममजतुस्तस्य दृशौ नृपस्य ॥ २ ॥

 प्रतीति ॥ तस्य नृपस्य दृशौ नेत्रे प्रथमं प्रतिप्रतीकं प्रत्यवयवं प्रियायां भैम्यां ममज्जतुर्निमग्ने । अथ पश्चादन्तरन्तःकरणे आन्तरो वा यः प्रत्यवयवदर्शनजन्य आनन्दस्तद्रूपा सुधामृतं तस्य समुद्रे ममजतुः । ततः पश्चात्प्रमोदाश्रुपरम्परायामानन्दजनितबाष्पप्रवाहे ममजतुः । अनया रीत्या सर्वेषामन्यवयवानामतिसौन्दर्यं सूचितम् । प्रत्य-


  1. तश्चिरं यः' इति पाठो जीवातुसंमतः।
  2. 'दर्शनमात्रेणैव नलस्य हृष्टत्वात् अथ मनोरथकार्यस्य महत्त्वे दमयन्तीविलोकनस्य कारणस्याल्पत्वे विरोधे सति हर्षाधिक्येन समाधीयते । तेनं विषमोपमालंकारः । अत्र सर्गे उपेन्द्रवजा केषुचिच्छ्लोकषु, केषुचिदिन्द्रवज्रा वृत्तम्' इति साहित्यविद्याधरी