पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
left
प्रथमः सर्गः।

प्रकारान्तरेण तस्य शास्त्रमार्गगामित्वं वदति-

दिगीशवृन्दांशविभूतिरीशिता दिशां स कामप्रसरावरोधिनीम् ।
बभार शास्त्राणि दृशं द्वयाधिकां निजत्रिनेत्रावतरत्वबोधिकाम् ॥६॥

दिगीशेति ॥ स नलः शास्त्राण्येव द्वयाधिकां दृशं बभार । शास्त्रलक्षणां द्वयाधिकां चक्षुरविषयभूतस्याप्यर्थस्य ग्रहणादप्यत्राव्यवहितत्वात्तृतीयां दृशं बभार । तृतीयनेत्रे सति हि त्रिनेत्रत्वं भवतीति शास्त्राख्यं तृतीयं नेत्रं वभारेत्यर्थः । किंभूतां दृशम् । कामस्य स्वेच्छाचारस्य यः प्रसरः प्राबल्यं तस्यावरोधिनीं निवारिकाम् । शास्त्रद्रष्टुः पापकर्मण्यप्रवृत्तेः । अत एव निजस्यात्मनस्त्रिनेत्रावतरत्वस्य त्रिनेत्रस्यैवावतर इत्यर्थस्य बोधिकां ज्ञापिकाम् । त्रिनेत्रोऽपि यथा कामप्रसरं रुणद्धि स्म, तथायमपि शास्त्राभ्यासाल्लोकानां स्वस्य च स्वेच्छाचारित्वं रुणद्धीत्यर्थः । अवतरो नामोत्पत्तिः । यद्वा-निजः स्वसंबन्धी नित्यः सहजो वा त्रिनेत्रावतरो यस्येति बहुव्रीहिः । तस्य भावस्तत्त्वं तस्य ज्ञापिकाम् । किंभूतो नलः । दिगीशवृन्दांशविभूतिः ।दिगीशा इन्द्रादयोऽष्टौ तेषां वृन्दानि तेष्वंशेन लेशेन विभूतिर्यस्य । नलस्य विभूतिलेशो दिगीशवृन्देषु वर्तत इत्यर्थः । एतत्कुतः । यतोऽयं दिशामीशिता सर्वासांदिशां शासिता । ते१ त्वेकैकस्या दिशः । तस्माच्छास्त्रविरुद्धं किमपि न करोतीत्यर्थः । त्रिनेत्रोऽपि दिगीशवृन्दमंशविभूतिर्यस्य । 'यद्यद्विभूतिमत्सत्त्वम्-' इति वचनाद्विष्णोरीश्वरस्य चाभिन्नत्वात्सर्वासां दिशां शासिता त्रैलोक्यस्वामित्वात् । यद्वा-दिगीशवृन्देऽशेन विभूतिरेकदिग्विभागैश्वर्यं यस्य । यद्वा-दिगीशवृन्दमर्ध्येऽशो यज्ञादिभागो यस्य । विशिष्टा भूतिरणिमाद्यैश्वर्ये [च] यस्य । ततः कर्मधारयः। यद्वा-दिगीशा इन्द्रादयोऽष्टौ तेषां वृन्दं तस्यांशैर्मात्राभिर्विशिष्टा भूतिर्जन्म यस्य । अष्टाभिश्च सुरेन्द्राणां मात्राभिर्निर्मितो नृपः' इति मनुः । यद्वा-दिगीशवृन्दांशश्वासौ विशिष्टैश्वर्यश्च । अत एव दिशामीशिता इति । एषु कतिपयेष्वर्थेषु नलस्य लोकपालांशत्वप्रतीतेस्त्रिनेत्रावतरत्वस्य गौणत्वप्रतीतेरसामञ्जस्यम् । मुख्यं तु त्रनेत्रावतरत्वमत्र संपाद्यम् । 'स भूभृदष्टावपि लोकपालाः' इति लोकपालांशत्वं वक्ष्यति ।त्रिनेत्रशब्देनात्रेशानव्यतिरिक्तः सर्वेश्वर उच्यत इति तात्पर्यम् । शास्त्राणि दृशमितिपदद्वये लिङ्गवचनभेदेऽपि 'वेदाः प्रमाणम्' इतिवद्विभक्तिरेकैव । यदुक्तम्-'लिङ्गसंख्याविभेदेऽपि ह्युपमानोपमेयता । विभक्तिः पुनरेकैव चोपमानोपमेययोः ॥' इति ।नलपक्षे–'दिगीश-' इत्यादौ व्यधिकरणोऽपि बहुव्रीहिः 'सप्तमीविशेषणे बहुव्रीहौ'इति ज्ञापकबलादङ्गीकर्तव्यः । ईशिता इति तृच् । प्रसर इति 'पुंसि संज्ञायां घःप्रायेण' इति वचनाद्धः। 'प्रसरं न लभन्ते' इति प्रयोगदर्शनात् । अवरोधिनी इतिसुब्ग्रहणादुपसर्गनिवृत्तेस्ताच्छील्यणिनेरयोगादावश्यके णिनिः । भाष्यकारमते तु सुम्मात्रत्वात्ताच्छील्येऽपि भवति । एवमेवंजातीयेऽन्यत्रापि ज्ञेयम् । त्रिनेत्र इति क्षुभ्रा-


१ 'न' इति पाठान्तरम् । तिलककर्त्रा तु 'ईशिता' इत्यत्र तनमभिप्रेत्य 'दिशाम्' द्वितीयैकवचनमेवोररीकृतम् ।