पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


नैषधीयचरितस्य .. प्रायः काव्यपञ्चकमेव काव्यजिज्ञासुभिरधीयते स्म, संप्रति चाधीयते । तत्र नव्यकैल्पना- दिगुणवत्तया श्रीहर्षविरचितं नैषधीयचरितमेव परां कोटिमारोहतीति सर्वसंमतम् ॥ स श्रीहर्षकविः श्रीहीरपण्डितान्मामल्लदेव्यां समजनीति प्रतिसर्गसमाप्तिश्लोकतः कान्यकुब्जेश्वरजयन्तचन्द्राश्रित आसीदिति "ताम्बूलद्वयमासनं च लभते यः कान्यकुब्जेश्वरात्" इत्येतद्वन्थसमाप्तौ प्रशस्तिश्लोकतः, "पूर्वस्यां वारॊणस्यां पुरि गोविन्दचन्द्रो नाम राजा ९७० अन्तःपुरीययौवनरसपरिमलग्राही । तत्पुत्रो [विजयचन्द्रः । तत्पुत्रो] जयन्तचन्द्रः । तस्मै राज्यं दत्त्वा पिता योगं प्रपद्य परलोकमसाधयत् । जयन्तचन्द्रः सप्तयोजनशतमानां पृथिवीं जिगाय । मेघचन्द्रः कुमारस्तस्य । यः सिंहनादेन सिंहानपि भकुमलम् । किं पुनर्मदान्ध- गन्धेभवटाः । तस्य राज्ञश्चलतः सैन्यं गङ्गायमुने विना नाम्भसा तृप्यतीति नदीद्वययष्टिग्रहणात् 'पङ्गलो राजा' इति लोके श्रूयते । यस्य गोमती दासी षष्टिसहस्रेषु वाहेषु प्रक्षरां (पर्याणं ?) निवेश्याभिषेणयन्ती परचक्रं त्रासयति । राज्ञः श्रम एव कः । तस्य राज्ञो बहवो विद्वांसः । तत्रैको हीरनामा विप्रः । तस्य नन्दनः प्राज्ञचक्रवर्ती श्रीहर्षः । सोऽद्यापि बालावस्थः । सभायां राजकीयेनैकेन पण्डितेन वादिना हीरो राजसमक्षं जित्वा मुद्रितवदनः कृतः । लघ्वा(जा)पङ्के मग्नो वैरं बभार । धारालं (?) मृत्युकाले श्रीहर्ष स बभाषे- 'वत्सामुकेन पण्डितेनाऽहमाहत्य राजदृष्टौ जितः। तन्मे दुःखम् । यदि सत्पुत्रोऽसि, तदा तं जयेः मापसदसि'। श्रीहर्षेणोक्तम् ओमिति। हीरो द्यां गतः । श्रीहर्षस्तु कुटुम्बभारमाप्तदायादेष्वारोष्य विदेशं गत्वा विविधाचार्यपार्श्वेऽचिरात्तालं- कारगीतगणितज्यौतिषचूडामणिमन्त्रव्याकरणादीः सर्वा विद्याः सुस्फुराः प्रजग्राह । गङ्गातीरे सुगुरुदत्तं चिन्तामणिमन्त्रं वर्षप्रमाणं साधयामास । प्रत्यक्षा त्रिपुराऽभूत् । अमोघादेशत्वादि. वराप्तिः। तदादि राजगोष्ठीषु भ्रमति । अलौकिकोल्लेखशेखरितं जल्पं करोति यं कोपि न बुध्यते । ततोऽतिविद्ययाऽपि लोकागोचरभूतया खिन्नः पुनर्भारती प्रत्यक्षीकृत्याऽभणत्-'मातः, अतिप्रज्ञाऽपि दोषाय ते (मे) जाता । बुध्यमानवचनं मां कुरु' । देव्योक्तं-'तर्हि मध्य- रात्रेऽम्भःक्लिन्ने शिरसि दधि पिब । पश्चात्स्वपिहि । कफांशावताराज्जडतालेशमाप्नुहि' । तथैव १ रघुवंश-किरातार्जुनीय-कुमारसंभव-शिशुपालवध-नैषधीयचरितनामकं ॥२ तथाचोक्तमनेनैवाष्टमसर्ग- समाप्तौ-'कविकुलादृष्टाध्वपान्थे महाकाव्ये' इति, एकादशसमाप्तौ-'शृङ्गारामृतशीतगौ' इति, त्रयोदशसमाप्तौ -'खादूत्पादभृति' इति, एकानविंशसमाप्तौ-'एकामत्यजतो नवार्थघटनाम्' इति ॥ ३ कान्यकुब्जेश्वरवेपि काश्यादितीर्थाऽधिपतित्वमपि तदीयदानपत्रतः प्रतीयत इति न विरोधः ॥ ४ दर्शयिष्यमाणप्राचीनदा- नपत्रानुसारेण वर्धितम् ॥ ५ तथाचोक्तं दशमसर्गसमाप्तौ-'तर्केष्वसमश्रमस्य' इति ॥ स्वयमपि प्रथमसर्गसमाप्तिश्लोके-"तच्चिन्तामणिमन्त्रचिन्तनफले शृङ्गारभङ्गया महाकाव्ये चारुणि नैषधी- यचरिते सर्गोयमादिर्गतः' इति ॥ ६ तथाचोक्तं