पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७७
पष्टः सर्गः

मिति भावः। सत्कार्यं जानानो जनो जोषमस्तु, अज्ञानानस्तु यत्किंचिद्वदत्वित्यर्थः । 'पुंस्येवान्धुः प्रहिः कूपः' इत्यमरः । प्रच्छिद्धिकर्मा[१]

  इत्थं प्रतीपोक्तिमतिं सखीनां विलुप्य पाण्डित्यवलेन वाला।

  अपि श्रुतस्वर्पतिमन्त्रिसूक्तिं दूतीं बभाषेऽद्भुतलोलमौलिम ॥१०८॥

इत्थमिति ॥ बाला भैमी सखीनां प्रतीपोक्तौ प्रतिकूलबचनविपयिणीं मतिं बुद्धिं पाण्डित्यस्य बलेन सामर्थ्येन इत्थं पूर्वोक्तप्रकारेण विलुप्य प्रमार्ज्य इन्द्रदृतीं वभाषे । किंभूतां दूतीम्-श्रुता स्वर्पतिमन्त्रिणो बृहस्पतेः सूक्तिः शोभनोक्तिर्यया एवंभूतामपि तथा-भैम्युक्तिं श्रुत्वा जातेनाद्भुतेनाश्चर्येण लोलो मौलिर्मस्तको यस्याः । अवशिष्टप्रतिवचनार्थं पुनरवाचे[२]

 किमुवाचेत्यत आह-

  परेतभनुमनसेव दूतीं नभस्वतेवानिलसख्यभाजः ।

  त्रिस्रोतसेवाम्बुपतेस्तदाशु स्थिरास्थमायातवतीं निरास्थम्॥१०९॥

 परेतेति ॥ हे इन्द्रदूत्यः, यस्मान्मनसा मया नलो वृतः तत्तस्मात्स्थिरा आस्था वशीकरणशक्तिर्यस्मिन्कर्मणि अहं भैमी वशीकरिष्यामीति बुद्ध्या आशु शाघ्रमायातवतीमायातां परेतभर्तुर्यमस्य दूतीं मनसैव निरास्थं निराकृतवत्यस्मि । तत्रानभिलाषाद्धेतोः । त्रिष्वप्ययमेव हेतुः। तथा—अनिलस्य सख्यभाजोऽग्नेः स्थिरास्थं शीघ्रमायातवतीं दूतीं नभस्वतेव वायुनेव निरास्थम् । तथा-स्थिरास्थमाशु आयातवतीमम्बुपतेर्वरुणस्य दूतीं त्रिस्रोतसेव मन्दाकिन्येव निरास्थम् । यमस्य परेतभर्तृत्वात्परेतप्राणानां तद्धीनत्वान्मनसश्च प्राणाधीनत्वान्मनसेव कृत्वा शीघ्रमायातां यमदूतीम्, वह्नेरनिलमित्रत्वादनिलेनेव कृत्वा शीघ्रमायातां वह्निदूतीम् , वरुणस्य जलपतित्वान्मन्दाकिन्येव शीघ्रमायातां वरुणदूतीम्, निरास्थमिति वा । तस्मादहमेव निराकृतेति दुःखं मा कार्षीरिति भावः। मनोनभस्वत्रिस्रोतःशब्देनोत्साहगमनवेगो द्योत्यते । मनआदिभिः सहायातवतीमिवेति वा । निरास्थम् , 'अस्यतिवक्ति-' इत्यङ् 'अस्यतेस्थुक्[३]

  भूयोर्थमेनं यदि मां त्वमात्य तदा पदावालभसे मघोनः ।

  सतीव्रतैस्तीव्रमिमं तु मन्तुमन्तर्वरं वज्रिणि मार्जितास्मि ॥११०॥

 भूय इति ॥ हे दूति, त्वं एनं इन्द्रवरणरूपमर्थं मां भूयः पुनर्यदि आत्थ ब्रवीषि तदा तहि मघोनः पदौ आलभसे स्पृशसि । एवं शपथदानात्त्वया भूयो न वक्तव्यमित्यर्थः। तर्हीन्द्रस्त्वयि कोपं करिष्यतीत्यत आह-अहं सतीव्रतैः पतिव्रतानियमैः वज्रिणि इन्द्रे विषयेऽन्तरन्तःकरणे तीव्रं दुःसहमिमं मन्तुमपराधं तु पुनः वरं मार्जितास्मि प्रोञ्छितास्मि । वरं मनागिष्टे वरं सम्यक् अन्तः हृदयस्थितैः सतीव्रतैरिति वा ।


  1. 'अत्र छेकानुप्रासरूपककाव्यलिङ्गालंकारसंकरः' इति साहित्यविद्यारी
  2. 'अत्र च्छेकानुप्रासोऽलंकारः' इति साहित्यविद्याधरी
  3. 'अत्र हेत्वनुप्रासोतिशयोक्तिरलंकारः' इति साहित्यविद्याधरी