पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७६
नैषधीयचरिते

 गुणा इति ॥ हरन्तो मनोरमा अपि हरेरिन्द्रस्य दूत्युक्ता गुणा मे मह्यं रोचमानं मम प्रीतिविषयं नरम् , अथ च नलं न परिहापयन्ति न त्याजयन्ति । अथ च रमणीया अन्ये हरेरश्वस्य गुणा रोचमानाख्यमावर्तं न परिहापयन्ति । अन्यगुणापेक्षया तस्याधिकगुणत्वादित्यर्थः । ननु हरणशीलत्वेपि किमिति तं न त्याजयन्तीत्याशङ्क्या दृष्टान्तेन परिहरति-हे सख्यः, यूयमपवर्गान्मोक्षादर्वाञ्चं हीनमपि त्रिवर्गं धर्मार्थका- मरूपममुञ्चमानमत्यजन्तं लोकं नालोकयथ । लोको यथा परमसुखरूपं मोक्षं परित्यज्य त्रिवर्गं सेवते तथेन्द्रं परित्यज्य नलं सेवे । रुचिरेवात्र प्रमाणमिति भावः । मे, 'रुच्यर्थानाम्' इति च[१] तुर्थी ॥

  आकीटमाकैटभवैरि तुल्यः स्वाभीष्टलाभात्कृतकृत्यभावः ।

  भिन्नस्पृहाणां प्रति चार्थमर्थं विष्टत्वमिष्टत्वमपव्यवस्थम् ॥१०६॥

 आकीटमिति ॥ हे सख्यः, आकीटं हीनेषु कृमिमभिव्याप्य उत्तमेषु आकैटभवैरि पुरुषोत्तममभिव्याप्य स्वाभीष्टलाभात्सर्वेषां स्वीयस्वीयेप्सितप्राप्तेः कृतकृत्यभावः कृतकृत्यत्वं तुल्यः विष्णोर्यथा स्वाभीष्टलाभात्कृतकृत्यत्वम्, तथा कीटस्यापि स्वाभीष्टलाभात्कृतकृत्यत्वम् । अर्थान्तरन्यासेनैतदेवाह-च यस्माद्भिन्नस्पृहाणांस्वीयं स्वीयमीप्सितमभिलाषुकाणां सर्वेषामर्थमर्थं प्रति विषयं विषयमुद्दिश्य द्विष्टत्वं द्वेषविषयत्वं, इष्टत्वमिच्छाविषयत्वमपव्यवस्थं अपगता व्यवस्था नियमो यस्य (तादृगस्ति) । एकस्य यद्दिष्टं तत्सर्वस्यापीति नियमो नास्ति । तस्माद्यद्यस्मै रोचते तत्तस्येष्टम् , यन्न रोचते तत्तस्य द्विष्टमिति । तस्मात् मम नल एवानुरागाद्भवतीभिः किमपि न वक्तव्यमिति भावः । चकारो यस्मादर्थे, समुच्चयार्थे वा द्विष्टत्वम् , इष्टत्वं चेति । आकीटम् , आकैटभवैरीति 'आङ् मर्यादाभिविध्योः' इति समासः[२]

  अध्वाग्रजाग्रन्निभृतापदन्धुर्बन्धुर्यदि स्यात्मतिबन्धुमर्हः ।

  जोषं जनः कार्यविदस्तु वस्तु प्रच्छ्या निजेच्छा पदवीं मुदस्तु ॥१०७॥

 अध्वेति ॥ हे सख्यः, बन्धुः सुहृत् अध्वाग्रे पुरोमार्गे जाग्रद्वर्तमानः निभृत आच्छा- दित आपद्रूपोऽन्धुः कूपो यस्य एवंभूतो यदि स्यातर्हि सुहृत्प्रतिबन्धुं निषेडुमर्ह उचितः स्यात् । तेन पथा मा गच्छ, यदि गमिष्यसि,तर्ह्यापद्रूपे गम्भीरे कूपे पतिष्यसि (इति) सुहृदा सुहृन्निषेद्धमुचितः । प्रकृते तु नैवमित्यर्थः । तस्मात्कार्यविद्विपत्कृपाभावं जानानो भवल्लक्षणो जनः जोषं तूष्णीमस्तु भवतु । गुणिनो नलस्य वरणे ममानिष्टं किंचिदपि न भविष्यतीति भवतीभिरहं न निषेद्धव्यति मया नलो विचार्यैव वृतोस्ति, तस्मात्तूष्णीं स्थातव्यमित्यर्थः । भवतीभिः निजेच्छा स्वेच्छैव मुदो हर्षस्य पवीं वस्तु मार्गरूपं वस्तु प्रच्छ्या प्रष्टव्या । भवतीनामपि यस्मिन्पुरुषादौ हर्षः, तत्रैव किमिति हर्ष इत्यनुयोगे भवतीभिरप्यनुराग एव कारणं वक्तव्यम् , तत्प्रकृतेऽपि तुल्य-


 

  1. 'अत्र विभावना, उभयन्यासश्चालंकारः' इति साहित्यविद्याधरी।
  2. 'अत्र काव्यलिङ्गमलंकारः'इति साहित्यविद्याधरी