यथा यथा प्राणिनं प्रवर्तयति तादृशी बुद्धिरुदेति । तथाच त्वमेवं किं चिकीयसात्या- क्षेपं प्रश्नं वा स प्राणी नार्हति तस्य स्वातन्त्र्याभावात् । ततश्च अदृष्टयशादीश्वरवशाद्वा नलेऽनुरक्ताहमपि त्वं नले किमित्यनुरक्ता, इन्द्रे किमिति नेत्युभयथा पर्यनुयोग्या न भवामीति प्रकृते भवतीभिः किमपि न वक्तव्यमिति भावः । अनादिधाविनां स्वेपामेषामात्मनां नलभैमीलक्षणानां परम्पराया हेतुस्रजः । प्रतियुगं हि नलभैमीसंबन्धः श्रूयते, न त्विन्द्रभैमीसंबन्ध इति वा व्याख्या । 'किं करोति नरः प्राज्ञः प्रेर्यमाणः स्वकमभिः' इति, किं करोति सुधीरस्मिन्नीश्वराज्ञावशंवदः' इति च वृद्धवचनम् । प्रवाहपतितं हि किमपि कर्तुमसमर्थमिति स्रोतःपदेन सूचितम्[१] ॥
पूर्वोक्तमेवाह-
नित्यं नियत्या परवत्यशेषे कः संविदानोप्यनुयोगयोग्यः ।
अचेतना सा च न वाचमर्हेद्वक्ता तु वक्रश्रमकर्म भुङ्क्ते ॥ १०३ ॥
नित्यमिति ॥ अशेषे समस्ते जने नित्यं सर्वदा नियत्या दैवेन परवति अदृष्टाधीने सति संविदानोऽपि ज्ञातापि कः अनुयोगयोग्यः, अपितु न कोऽपि । देवेन यथा प्रेर्यते तथैव सर्वोऽपि करोतीत्यर्थः । कुमार्गप्रवृत्त्युत्पादिका नियतिरेव प्रष्टव्येत्यत आह-सा च नियतिरपि (यतोचेतना, अतो) वाचं नाहेत् । पूर्वोक्तनियोगकारी पुरुषः पुनः वक्त्रश्रमहेतुकं कर्म भुङ्क्तेऽनुभवति । लोकस्य दैवाधीनत्वान्नियतेश्चाचेतनत्वात्तौ प्रतिवचनस्य वैयर्थ्याद्विक्तुः केवलं कण्ठशोषो भवति, तस्माद्भवतीभिर्मां प्रति किमपि प्रकृते न वक्तव्यमिति भावः । संविदानः 'समो गम्वृच्छिप्रच्छि-' इत्यादिना तङ्[२] ॥
क्रमेलकं निन्दति कोमलेच्छुः क्रमेलकः कण्टकलम्पटस्तम् ।
प्रीती तयोरिष्टभुजोः समायां मध्यस्थता नैकतरोपहासः ॥१०४॥
क्रमेलकमिति ॥ कोमलेच्छुर्मृदुवस्त्वभिलाषी पुरुषः क्रमेलकमुष्ट्रं कठिनवस्तुभक्षक- त्वान्निन्दति । क्रमेलकः कण्टकलम्पटः कण्टकाशी सन् तं कोमलेच्छु निन्दति । इष्ट- भुजोः स्वेष्टेन भक्षणशीलयोस्तयोः समायां तुल्यायां प्रीतौ न एकतरोपहासः, किंतु मध्यस्थता । यद्यपि तौ द्वावपि परस्परनिन्दाकारित्वादनुचितकारिणौ तथाप्युदासी- नेन पक्षपातो न कार्यः । तस्मान्मम नले पक्षपातः, दूत्यास्त्विन्द्रे इत्यावयोस्तुल्यायां प्रीतौ सत्यां भवतीभिर्माध्यस्थ्यमेव कार्यम्, न त्वेकतरोपहासः कार्यः । किमपि न कार्यमिति भावः । समायामिति तुल्यार्थत्वात्सर्वनामत्वाभावः [३] ॥
गुणा हरनोऽपि हरेनरं मे न रोचमानं परिहापयन्ति ।
न लोकमालोकयथापवर्गात्रिवर्गमर्वाञ्चममुञ्चमानम् ॥ १०५ ॥