पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७३
पष्टः सगः

 वषष्विति ॥ आर्येषु साधुषु मध्ये धुर्याः श्रेष्ठा मन्वादयः सर्वेषु इलावृता- दिखण्डेषु मध्ये यत् जम्बूद्वीपनवमांशं भारतं खण्डम् अतिपुण्यभूमित्वात्स्तुवन्ति । केषु किमिव-आश्रमेषु ब्रह्मचर्यादिषु मध्ये गार्हस्थ्यं गृहस्थाश्रममिव । स्तुवन्तीत्यर्थः। 'यथारण्यं समाश्रित्य सर्वे जीवन्ति जन्तवः। वर्तन्ते गृहिणस्तद्वदाश्रित्येतर आश्रमाः॥" इति । तत्र तस्मिन्निह भारत खण्डे पत्युः प्राणेशस्य नलस्य वरिवस्यया सेवया अहं शर्मणः सुखस्योर्मयः परम्परास्ताभिः किर्मीरितो मिश्रितो धर्मः, तं लिप्सुरभिलाषुका अस्मि । नलसेवयोभयमपि भविष्यतीति स एव वृत इति भावः । भरतस्य क्षत्रियस्येदं भारतम् । 'वरिवस्या तु शुश्रूषा' इत्यम[१]रः॥

 नलवरणेनैव पूर्वोक्तं द्रढयति-

  स्वर्गे सतां शर्म परं न धर्मा भवन्ति भूमाविह तच्च ते च ।

  शक्या मखेनापि मुदोमराणां कथं विहाय [२] त्रयमेकमीहे ॥ ९ ॥

 स्वर्ग इति ॥ स्वर्ग सतां स्थितिमतां जनानां परं केवलं शर्म अस्ति, न धर्माः पुण्यानि । तस्य केवलं भोगभूमित्वाम् । इह भारतभूमौ पुनः तच्च सुखं च ते धर्माश्च सन्ति । कर्मभोगभूमित्वाद्भारतस्येत्यर्थः । इन्द्रे वृते तत्सुखोत्पादनाद्धर्मोऽपि विद्यत इत्याशङ्क्याह-अमराणां मुदः मखेनापि शक्याः । यज्ञकरणादिन्द्रप्रीतिरपि कर्तुं शक्या इति । स्वर्गे केवलं सुखम् । अत्र तु सुखम् , धर्मो, देवमुदश्च इत्येतत्रयं विहाय केवलमेकं सुखं कथमीहे इच्छामि । तस्मान्नले वृते सुखादित्रयप्राप्तेर्नलवरणमेवज्यायः । अन्योऽपि यत्र बहु प्राप्नोति तदेव गृह्णाति । इन्द्रवरणे तस्यैव सुखं, नान्येषाम् । नलवरणे सर्वेषां देवानामित्यभिप्रायेण बहुवचनम्[३]

 पूर्वोक्तमेवान्वयव्यतिरेकाभ्यां समर्थयते----

  साधोरपि स्वः खलु गामिताधो गमी स तु स्वर्गमितः प्रयाणे ।

  इत्यायती चिन्तयतो हृदि द्वे द्वयोरुदकः किमु शर्करे न ॥ ९९ ॥

 साधोरिति ॥ साधोर्धार्मिकस्यापि स्वः स्वर्गात्सकाशात्प्रयाणे खलु निश्चितमधोगामिता अधःपातिता । 'क्षीणे पुण्ये मर्त्यलोकं विशन्ति' इति भगवद्वचनात् । इतो भारतवर्षात्तु प्रयाणे मरणरूपे सति स साधुः स्वर्गं गमी पुण्यवत्त्वात् । इति द्वयोः स्वर्गमर्त्ययोः द्वे आयती उत्तरकालौ हृदि चिन्तयतो विचारयतः पुरुषस्य द्वयोस्तयोरुदर्क उत्तरं फलं उभे द्विविधे शर्करे न किमु कर्परलेशखण्डविकृती किं न, अपितु स्वर्गफलं कर्परांशतुल्यम्, मर्त्यलोकफलं खण्डविकृतितुल्यम्, अधोगामित्वात् , स्वर्गगामित्वाच्च । तस्मादत्र नलपरिचयैव ज्यायसीति भावः । 'शर्करा खण्डविकृतावुपलाशर्करांशयोः' इति विश्वः । गामिता, गमी इति भविष्यति गम्यादयः' इति भविष्यतीनौ कृते 'अकेनोर्भविष्यदाधमर्ण्ययोः' इति षष्टीनिषेधात्स्वर्गमिति द्वितीया ॥ [४]


  1. 'अत्रोपमालंकारः' इति साहित्यविद्याधरी
  2. 'द्वयम्' इति पाठो जीवातुसंमतः ।
  3. 'अत्र समुच्चयालंकारः' इति साहित्यविद्याधरी
  4. 'अत्रोत्प्रेक्षालंकारसंकरः' इति साहित्यविद्याधरी।