पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७०
नैषधीयचरिते

 अनेति ॥ भीमजया इति पूर्वोक्तमभिहिते सति मुदां हर्षाणामियत्ता परिमितता दूतीं आलीः सखीश्च न आलिङ्गत् । 'अनयास्मद्वचनेनेन्द्रवरणमङ्गीकृतमिति बुद्ध्या ता अपरिमितहर्षा जाता इत्यर्थः । इति किम् -हे सख्यः, अहं कदापि कदाचिदपि वो युष्माकमनाश्रवा वचनकारिणी न किम् , अपितु सर्वदा भवद्वचनकारिण्येव भवदुक्तं मया क्रियत एव सर्वदा । परं किंतु वक्तुं शेष अवशिष्टो विशेषोऽस्ति । नालिङ्गत्, अपि त्वालिङ्गदेव । शेषपदश्रवणादल्प एव संतोषोऽभूदित्यर्थ इति वा । विशेषः शेषो स्ति किम् , अपितु नास्तीत्युभयत्रापि किमः संबन्धाद्भ्रान्तिवशादपरिमितहर्षा जाता इति वा । परं किंत्वर्थे ॥

  भैमीं च दूत्यं च न किंचिदापमिति स्वयं भावयतो नलस्य ।

  आलोकमात्राद्यदि तन्मुखेन्दोरभून्न भिन्नं हृदयारविन्दम् ॥ ८९ ॥  भैमीमिति ॥ ( अहं) भैमीं च दूत्यं च किंचिदपि द्वयोर्मध्ये किमप्यहं नापं न प्राप्तवानिति स्वयं भावयतश्चिन्तयतो नलस्य हृदयारविन्दं यदि यद् भिन्नं विदीर्णं नाभूत् तत् तन्मुखेन्दोः भैमीमुखचन्द्रस्य आलोकमात्राद्दर्शनादेव नान्यतो हेतोः । पूर्वोक्तचिन्तावशात्तस्य हृदयस्फोटेन यद्यपि भवितव्यं, तथापि भैमीमुखालोकनतत्परतया तेन न भूतमित्यर्थः । हृदयस्फोटपर्यन्तं तस्य दुःखं जातमिति भावः । इन्द्रानादरसूचकभैमीमुखावलोकनान्न स्फुटितमिति भाव इति वा । अथ च कमलं चन्द्रप्रकाशाद्भिन्नं विकसितं न भवति किंतु संकुचत्येवेति युक्तम् । दूत्यप्राप्तौ कीर्तिर्भवति, दूत्याप्राप्तौ कीर्त्यभावाद्दुःखम्[१]

  ईषत्स्मितक्षालितसृक्वभागा दृक्संज्ञया वारिततत्तदालिः।

  स्रजा नमस्कृत्य तयैव शक्रं तां भीमभूरुत्तरयांच[२]कार ॥ ९० ॥

ईषदिति ॥ भीमभूः भैमी तयैव स्रजा शक्रं सह वा नमस्कृत्य मालामेव महान्प्रसाद इति कृत्वा तामिन्द्रदूतीमुत्तरयांचकार उत्तरवतीं चकार । इन्द्रवाचिकस्य प्रत्युत्तरं ददावित्यर्थः। तां उत्तरमाचष्टेति वा । किंभूता -इन्द्रस्य दूत्यादीनांमिन्द्रे स्वीयानुरागप्रतीतिसूचकहर्षप्रदर्शनात् ईषत्स्मितेनात्यल्पस्मितेन क्षालितो धौतः सृक्वभाग ओष्ठप्रान्तदेशो यस्याः सा । तथा दृक्संज्ञया किंचित्कटाक्षविक्षेपलक्षणेन संकेतेन वारिता निषिद्धा 'आर्ये, विचार्यालम्' इति ब्रुवत्यस्तास्ता आलयः सख्यो यया । लोकरीत्या नमस्कारोऽनङ्गीकारसूचकः । स्मितशब्देनैवेषत्त्वप्रतीतेरीषत्पदमत्यल्पत्वसूचनार्थम् । 'प्रान्तावोष्ठस्य सृक्वणी' इत्यमरः। उत्तरवतीं करोति 'तत्करोति-' इति णिचि मतुब्लोपः। तदाचष्टे इति वा णिच् ॥

  स्तुतौ मघोनस्त्यज साहसिक्यं वक्तुं कियत्तं यदि वेद वेदः ।

  मृषोत्तरं साक्षिणि हृत्सु नॄणामज्ञातृविज्ञापि ममापि तस्मिन् ॥ ९१ ॥


  1. 'अत्रोत्प्रेक्षारूपकमलंकारौ' इति साहित्यविद्याधरी । 'इन्दुप्रकाशात्कथमरविन्दविकासः' इति विरोधो ध्वन्यते' इति जीवातुः।
  2. 'बभूव' इति पाठस्तिलकजीवातुसुखावबोधासाहित्यविद्याधरीसंमतः।