पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६९
षष्ठः सर्गः

 यानिति ॥ त्वं यानेव देवांस्त्रिकालं त्रिसंध्यं नमसि नमस्करोषि तेषां कृतघ्नीकृतिः कृतघ्नीकरणं ते तव न औचिती । तेषामकृतज्ञताकरणं नोचितम् । तर्हि किं कर्तव्यमित्यत आह –त्रिसंध्यं तव पदयोः पतिष्यतः तान्देवानप्यनृणानृणरहितान्विधातुं कर्तुं प्रसीद प्रसन्ना भव । इन्द्रवरण इन्द्रसेवार्थमागच्छद्भिर्देवैरिन्द्रं प्रणम्येन्द्राणीं विहाय तवापि प्रणतिः करिष्यते । त्वया पूर्वं नमस्कृतास्त्रिकालं त्वां नमस्यन्ति (पुरा), तेन तेषामनृणत्वं भविष्यति । इन्द्रं वृणीष्वेति भावः । त्रिकालम्, त्रिसंध्यं च पात्रादित्वान्ङीबभावः । उभयत्राप्यत्यन्तसंयोगे द्वितीया ॥

  इत्युक्तवत्या निहितादरेण भैम्या गृहीता मघवत्प्रसादः।

  स्रक्पारिजातस्य ऋते नलाशां वासैरशेषामपुपूरदाशाम् ॥ ८६ ॥

 इतीति ॥ पारिजातस्य पुष्पस्रक् माला नलस्याशामृते नलाभिलाषं विना वासैः परिमलैः कृत्वा अशेषामाशां सकला अपि दिशः अपुपूरत्पूर्णां चकार । किंभूता स्रक् -इति पूर्वोक्तमुक्तवत्या इन्द्रदूत्या निहिता दत्ता। तथा आदरेण भैम्या गृहीता च । तथा -मघवत इन्द्रस्य प्रसादरूपा । सर्वा अपि दिशः परिमलवहला जाता इत्यर्थः। आदरेण मालाया गृहीतत्वादिन्द्रे भैम्यनुरागसंभावनया नलः शिथिलाशो जातः, इन्द्रदूत्यादीनामपि तत एवाभिलाषपूरणं जातमिति भावः । 'न मां तथा जातमृते तवालि' 'फलति पुरुषाराधनमृते' इत्यादिप्रयोगदर्शनादृतेयोगे नलाशामिति द्वितीयापि भवति । 'णौ चङ्युपधाया ह्रस्वः' इत्युपधाह्रस्वविधानात् 'पूरी आप्यायने' दैवादिकस्य पूर्यतेः पूरयतेर्वा अपूपुरदिति प्राप्ते अपुपूरदिति चिन्त्यम् । न च 'नाग्लोपि-' इत्यादिना निषेधप्रसङ्गः । अग्लोपित्वाभावाद्गत्यन्तरं मृग्यम् । संज्ञापूर्वको विधिरनित्य इत्युपधाह्रस्वत्वाभाव इति वा। 'पूरी आप्यायने' इत्यस्य पूरणं पूरः। घञ्, तं करोतीति, इति 'तत्करोति-' इति णिचि अग्लोपित्वे सति 'नाग्लोपि-' इत्युपधाह्रस्वनिषेधात् अपुपूरदिति वा [१]

  आर्ये विचार्यालमिहेति कापि योग्यं सखि स्यादिति काचनायि ।

  ओंकार एवोत्तरमस्तु वस्तु मङ्गल्यमत्रेति च काप्यवोचत् ॥ ८७ ॥

 आर्ये इति ॥ हे आर्ये श्रेष्ठे, इह इन्द्रवरणविषये विचार्यालं विचारो न कर्तव्यः, किंतु इन्द्रो वरणीय इति काप्यवोचत् । काचन अयि सखि भैमि, इदमिन्द्रवरणं योग्यमुचित्तं स्यादित्यवोचत् । कापि च इत्यवोचत् । इति किम् -अत्र इन्द्रवरणविषये अङ्गीकारसूचक ओंकार एव वस्तु तात्त्विकं मङ्गल्यमस्तु भवतु । इति सखीनां संमतिः। मङ्गल्यमित्यर्हार्थे यत् [२]

  अनाश्रवा वः किमहं कदापि वक्तुं विशेषः परमस्ति शेषः ।

  इतीरिते भीमजया न दूतीमालिङ्गदालीश्च मुदामियत्ता ॥ ८८ ॥


  1. 'अत्र छेकानुप्रासोलंकारः' इति साहित्यविद्याधरी । ’द्वयोरप्याशयोरभेदाध्यवसायाद्विनोक्तिनिर्वाहः' इति जीवातुः।
  2. 'अत्र दीपकोलंकारः' इति साहित्यविद्याधरी।