पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६३
षष्ठः सर्गः।

अमर्दिते सौन्दर्यात्त्वत्कुचमर्दनवाञ्छायां समुत्पन्नायामप्यर्धाङ्गत्वात्पार्वतीकोपभिया हरेणास्पृष्टेत्यर्थे कुचविशेषणं वा । पार्वतीभिया हरागमनसंभावनाया अप्यभावान्निर्भयत्वेन स्मरस्य क्रीडा युज्यत इत्यर्थः । नखाङ्कचुम्बिपीवरत्वत्कुचदर्शनात्सर्वस्यापि कामोद्रेको भवतीति भावः । हरेण पार्वतीभीत्या गुप्तेऽस्पृष्टे सुन्दरि सखि, संबोधनं वा। हरभीलक्षणा ईतिः परचक्रं तस्मादात्मानं गोपायतीति मदनविशेषणं वा । हरोप्येतद्दर्शनविमोहितो मम वशं गतः शान्तकोपो भविष्यतीति बुद्ध्वा निर्भय इ[१]ति ॥

  स्मराशुगीभूय विदर्भसुभ्रूवक्षो यदक्षोभि खलु प्रसूनैः ।

  स्रजं सृजन्त्या तदशोधि तेषु यत्रैकया सूचिशिखां निखाय ॥६७॥

 स्मरेति ॥ प्रसूनैः पुष्पैः स्मराशुगीभूय कामबाणीभूय विदर्भसुभ्रूवक्षो भैमीवक्षो यदक्षोभि पीडितं तद् भैमीवक्षःक्षोभलक्षणं वैरं तेषु पुष्पेषु गुणे घटनार्थं सूचिशिखां सूच्यग्रं निखायारोप्य स्रजं मालां सृजन्त्या रचयन्त्या एकया अशोधि शोधितं, खलूत्प्रेक्षते । तेषां शस्त्रप्रहारकरणाद्वैरनिर्यातनं तया कृतमित्यर्थः । यत्र काचिन्मालां जग्रन्थेति भावः । मालाकारिण्याश्च पुष्पेषु सूचिशिखानिखननं जा[२]तिः ॥

  यत्रावदत्तामतिभीय भैमी त्यजत्यजेदं सखि साहसिक्यम् ।

  त्वमेव कृत्वा मदनाय दत्से बाणान्प्रसूनानि गुणेन सज्जान् ॥६८॥

 यत्रेति ॥ यत्र सभायां भैमी अतिभीय अतितरां भयं प्राप्य तां मालाकारिणीमित्यवदत् । इति किम्--हे सखि, इदं मालाग्रथनलक्षणं साहसिक्यमविचार्यकारित्वं त्यज त्यज मुञ्च मुञ्चेति । साहसिकत्वमेवाह--यतः प्रसूनानि पुष्परूपान्बाणान्गुणेन दोरकेण, अथ च मौर्व्या, सज्जान्संनद्धान्कृत्वा मदनाय त्वमेव दत्से ददासि । मां पीडयतः कामस्य मौर्वीसंबद्धबाणदानेन या त्वं साहायकमाचरसि सा त्वं समीचीना सहचरी भवसीति सोल्लुण्ठनं तामवददित्यर्थः । मालायां बाणसंनद्धमौर्वीबुद्ध्या भैम्या भयं जातमिति भावः । त्यजत्यजेति भयाद्द्विरुक्तिः। सहसा वर्तते साहसिकी 'ओजःसहोम्भसा वर्तते' इति ठक् । तस्या भावे 'गुणवचन-' इत्यादिना ष्य[३]ञ् ॥

  आलिख्य सख्याः कुचपत्रभङ्गीमध्ये सुमध्या मकरीं करेण ।

  यत्रालपत्तामिदमालि यानं मन्ये त्वदेकावलिनाकनद्याः ॥ ६९॥

 आलिख्येति ॥ यत्र सभायां काचित्सुमध्या सुन्दरी सख्याः कुचयोः पत्रभङ्गीमध्ये पत्रवल्लीरचनामध्ये करेण मकरीमालिख्य तां सखीमित्यालपदवदत् । इति किम्--हे आलि सखि, त्वदेकावलिस्तव एकयष्टिकमुक्ताहारविशेषः तल्लक्षणाया नाकनद्याः स्वर्गङ्गाया इदं मकरीलक्षणं यानं वाहनं मन्ये तर्कयामि । स्वच्छत्वान्मुक्ताहारस्य


  1. 'अत्रोत्प्रेक्षोपमारूपकालंकारः' इति साहित्यविद्याधरी
  2. 'अत्र छेकानुप्रासोत्प्रेक्षालंकारसंकरः' इति साहित्यविद्याधरी।
  3. 'अत्रातिशयोक्तिरलंकारः' इति साहित्यविद्याधरी।