प्रथमस्थले तात्त्विकोपा(प)लम्भात्, द्वितीयस्थले बाधोपा(प)लम्भात् , तदृष्टान्तावष्टम्भेन तृतीयस्थले किं प्रथमस्थल इव सत्यम् , उत द्वितीयस्थल इवासत्यमिति निर्णयाभावादनादरसहितौ जाविति भावः । पुनरपि तृतीयस्थले सत्यालिङ्गने जातेऽपि विश्वासो नाभूदित्यर्थः।। [१]र्थः ॥
सर्वत्र संवाद्यमबाधमानौ रूपश्रियातिथ्यकरं परं तौ।
न शेकतुः केलिरसाद्विरन्नुमलीकमालोक्य परस्परं तु ॥ ५४॥
सर्वत्रेति ॥ रूपश्रिया परस्परसौन्दर्यशोभया परं अतितरां परस्परस्य आतिथ्यकरं सौख्यकरं सर्वत्र बहुषु स्थलेषु संवाद्यं स्पर्शादिना संवादयोग्यं सत्यरूपं परस्परं कर्मभूतमबाधमानौ सत्यत्वेन मन्यमानौ क्वचिदलीकं तु असत्यं पुनः, असत्यमपि वा परस्परमालोक्य तौ केलिरसाक्रीडाप्रीतेः विरन्तुं विरतिं प्राप्तुं न शेकतुः समथौँ नाभूताम् । क्वचिदलीकत्वेऽपि बहुषु स्थलेषु सत्यत्वादालिङ्गनादिक्रीडां चक्रतुरेवेति भावः। 'तथ्यकरम्' इति पाठे कीदृक्परस्परम्- केवलं तथ्यकरं सत्यबुद्धिजनकमिति वा [२]॥
परस्परस्पर्शरसोर्मिसेकात्तयोः क्षणं चेतसि विमलम्भः ।
स्नेहातिदानादिव दीपिकार्चिर्निमिष्य किंचिद्विगुणं दिदीपे ॥५५॥
परेति ॥ परस्परस्पर्शरसः अन्योन्यस्पर्शजनितोऽनुरागस्तस्य ऊमिरुद्रेकः तज्जनितात्सेकात्साचनात्तयोश्चेतसि विप्रलम्भो वियोगः क्षणमात्रं किंचिन्निमिष्य पूर्वापेक्षया द्विगुणं द्वाभ्यां गुणनं यथा तथा दिदीपे प्रदीप्तः । कस्मात्किमिव-स्नेहातिदानात् तैलस्य बहुप्रक्षेपादीपिकार्चिरिव दीपशिखेव । सा यथा किंचिन्मन्दीभूय द्विगुणं प्रकाशते । अप्राप्तौ सत्यां विप्रलम्भस्तादृक् दुःसहो न, यथा संयोगपूर्वको वियोग इति [३]भावः ॥
वेश्माप सा धैर्यवियोगयोगाद्बोधं च मोहं च मुहुर्दधाना।
पुनः पुनस्तत्र पुरः स पश्यन्बभ्राम तां सुभ्रुवमुद्भ्रमेण ॥ ५६ ॥
वेश्मेति ॥ सा भैमी वेश्म स्वगृहम् आप। किंभूता-धैर्यवियोगयोयोगात्संबन्धाक्रमेण अत्र नलसंभावना कुतस्त्येति बोधं सम्यग्ज्ञानम् , नल एवायमिति मोहं मिथ्याज्ञानं च मुहुर्दधाना । स नल उद्भ्रमेण भ्रान्तिवशेनं तां सुभ्रुवं सुन्दरी पुनःपुनः पुरोऽग्रे पश्यन् तत्रैव बभ्राम । अलीकतदालिङ्गनादिवाञ्छया तत्रैव विचचारेति [४]भावः ॥
पद्भ्यां नृपः संचरमाण एष चिरं परिभ्रम्य कथंकथंचित् ।
विदर्भराजप्रभवाभिरामं प्रासादमभ्रंकषमाससाद ॥ ५७ ॥