पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५७
षष्टः सर्गः।

  भवन्नदृश्यः प्रतिबिम्बदेहव्यूहं वितन्वन्मणिकुट्टिमेषु ।

  पुरं परस्य प्रविशन्वियोगी योगीव चित्रं स रराज राजा ॥ ४६॥

 भवन्निति ॥ वियोगी स राजा नलः योगीव वियोगरहित इव, अथ च मुनिरिव विरराज । एतच्चित्रं विरहिणो विरहित्वाभावादाश्चर्यम् । यतोऽदृश्यो भवन्मणिकुट्टिमेषु मणिबद्धभूमिषु प्रतिबिम्वदेहव्यूहं प्रतिबिम्बरूपकायसमूहं वितन्वन्विस्तारयन् । तथा-परस्य पुरं नगरं गृहोपरिगृहं वा प्रविशन् । मुनिरप्यदृश्यो भवति, कायव्यूहं च करोति, परस्य जीवान्तरस्य शरीरं च प्रविशति, विषयेभ्यो निवृत्तत्वाद्वियोगी च भवति । 'पुरं पाटलिपुत्रे स्यागृहोपरिगृहे पुरम् । पुरं पुरि शरीरे च' इति विश्वः[१]

  पुमानिवास्पर्शि मया वजन्त्या छाया मया पुंस इव व्यलोकि ।

  ब्रुवन्निवातर्कि मयापि कश्चिदिति स्म स स्त्रैणगिरः शृणोति ॥४७॥  पुमानिति ॥ स नल इति स्त्रैणगिरः स्त्रीसमूहवाणीः शृणोति स्म । इति किम्-व्रजन्त्या विचरन्त्या मया पुमानिवास्पर्शि स्पृष्टः, विचरन्त्या मया पुंस इव पुरुषस्येव छाया व्यलोकि दृष्टा, मया कश्चिद्रुवन्निव वदन्निवातर्कि । ससंभ्रमाभिः सर्वाभिः परस्परं भैमीं प्रत्येव वा एवमुक्तमित्यर्थः । स्त्रैणं समूहे 'स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात्' इति नञ् । स्त्रैणीः स्त्रीसंबन्धिनीर्गिर इति वा’[२]

  अम्बां प्रणत्योपनता नताङ्गी नलेन भैमी पथि योगमाप ।

  स भ्रान्तिभैमीषु न तां व्यविक्त सा तं च नादृश्यतया ददर्श ॥४॥

 अम्बामिति ॥ नताङ्गी सुन्दराङ्गी सा भैमी अम्बां मातरं प्रणत्य प्रणम्य उपनता आगता सती नलेन सह पथि योगं संबन्धमाप । स नलः भ्रान्तिभैमी भ्रान्त्या दृष्टासु भैमीषु मध्ये तां सत्यरूपां न व्यविक्त विवेकेन ज्ञातवान् । सा चादृश्यतया तं न ददर्श । 'सा तं च नादर्शददृश्यमेव' इति पाठे नाद्राक्षीदेवेत्यर्थः। अदर्शत्, 'ऋदृशोऽङि-' इति गुणः। प्रणत्य 'वा ल्यपि' इत्यनुनासिकलोपे तु[३]क् ॥

  प्रसूप्रसादाधिगता प्रसूनमाला नलस्योद्भ्रमवीक्षितस्य ।

  क्षिप्तापि कण्ठाय तयोपकण्ठं स्थितं तमालम्बत सत्यमेव ॥४९॥

 प्रस्विति ॥ प्रसूप्रसादाधिगता मातृप्रसादप्राप्ता प्रसूनमाला कुसुममाला उद्भ्रमेण भ्रान्त्या वीक्षितस्यापि नलस्य कण्ठाय तया भैम्या क्षिप्ता उपकण्ठे समीप स्थितं सत्यरूपमेव तं नलं तत्कण्ठं चालिङ्गत्[४]


  1. 'अत्र विराधाभासोपमालंकारः' इति साहित्यविद्याधरी।
  2. 'अत्रोपमालंकारः' इति साहित्यविद्याधरी
  3. ’ ’काव्यलिङ्गमलंकारः' इति साहित्यविद्याधरी।
  4. अत्रानुप्रासोलंकारः' इति साहित्यविद्याधरी।