पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५५
पष्ठः सर्गः।

  पश्याः पुरंधीः प्रति सान्द्रचन्द्ररजःकृतक्रीडकुमारचक्रे।

  चित्राणि चक्रेऽध्वनि चक्रवर्तिचिह्नं तदङ्घ्रि प्रतिमासु चक्रम॥३९॥

 पश्या इति ॥ सान्द्रं घनं चन्द्ररजः कर्पूरपरागस्तेन कृता क्रीडा खेलो येनैवंभूतं कुमारचक्रं बालसङ्घो यस्मिन्नेवंविधेऽध्वनि मार्ग तदङ्घ्रिप्रतिमासु नलचरणकमलप्रतिविम्बेषु वर्तमानं चक्रवर्तिनः सार्वभौमस्य चिह्न लक्षणं रेखारूपं चक्रं पश्याः विलोकयन्तीः पुरंध्रीस्तरुणीः। प्रति लक्षीकृत्य चित्राण्यतितरामाश्चर्याणि चकार । केन सार्वभौमेनात्र विचरितमिति तासामाश्चर्यमभूदित्यर्थः । 'चान्द्र' इत्यपि पाठः । 'यस्याः' इति पाठे भैम्याः संबन्धिनीः पुरन्ध्रीरिति योजना। स्वाम्येन चक्रं राष्ट्रं वर्तयतीति चक्रव[१]र्ती ॥

  तारुण्यपुण्यामवलोकयन्त्योरन्योन्यमेणेक्षणयोरभिख्याम ।

  मध्ये मुहूर्त स बभूव गच्छन्नाकस्मिकाच्छादनविस्मयाय ॥ ४० ॥

 तारुण्येति ॥ स नलः तारुण्येन पुण्यां चार्वीमन्योन्यं परस्परसंवन्धिनीमभिख्यां शोभामवलोकयन्त्योः पश्यन्त्योः कयोश्चिदेणेक्षणयोर्मृगीदृशोर्मध्ये मुहूर्तं क्षणमात्रंगच्छन्सन् आकस्मिकेन निर्हेतुकेन आच्छादनेन तिरोधानेन कृत्वा यो विस्मय आश्चर्य तस्मै बभूव । 'भूयादन्तर्धिसिद्धेः-' इत्यादिवरदानाददृश्यस्य मम स्पर्शेन भवितव्यम्, शरीरेणान्यस्थाच्छादनं कर्तव्यम् , अदृश्येषु मदीयभूषारत्नेषु प्रतिबिम्बेन भवितव्यमित्यादीच्छावशादाच्छादनात्तयोराश्चर्यं जनयति स्मेति भावः । 'पुण्यं तु चार्वपि' इत्यमरः[२]

  पुरःस्थितस्य क्वचिदस्य भूषारत्नेषु नार्यः प्रतिबिम्बितानि ।

  व्योमन्यदृश्येषु निजान्यपश्यन्विस्मित्य विस्मित्य सहस्रकृत्वः ॥४१॥

 पुर इति ॥ क्वचित्प्रदेशे स्त्रीणां पुरोऽग्रे स्थितस्यास्य नलस्यादृश्येषु भूषारत्नेषु भूषणरत्नेषु निजानि स्वीयानि प्रतिबिम्बानि विस्मित्य विस्मित्य पुनःपुनः विस्मयं प्राप्य नार्यः सहस्रकृत्वः सहस्रवारं व्योमनि गगने अपश्यन्नवलोकयन्ति स्म । केवले गगने केनापि प्रतिबिम्बं नावलोक्यते अस्माभिरवलोक्यते । स्वकीयं परकीयमपि किमेतदिति साश्चर्यं पुनःपुनः ददृशुरित्यर्थः । एतदपि नलस्वेच्छावशादेवेति पूर्वमुक्तम् । प्रतिबिम्बितानीति भावे क्तः। रूपाणीति वा संबन्धनीयम्[३]

  तस्मिन्विषज्यार्धपथात्तपातं तदङ्गरागच्छुरितं निरीक्ष्य ।

  विस्मरतामापुरविस्मरन्यः क्षिप्तं मिथः कन्दुकमिन्दुमुख्यः ॥४२॥

 तस्मिन्निति ॥ इन्दुमुख्यश्चन्द्रवदनाः कन्दुकं निरीक्ष्य मिथः परस्परं क्षिप्तं तमेवाविस्मरन्त्योऽपि विस्मेरतां साश्चर्यतामापुः। किंभूतं कन्दुकम्-तस्मिन्नले विषज्य सं- [[#endnote_{{{1}}}|[{{{1}}}]]]

  1. 'अत्र छकानुप्रासोलंकारः' इति साहित्यविद्याधरी।
  2. 'अत्र छकानुप्रासोलंकारः' इति साहित्यविद्याधरी।
  3. ’अत्रातिशयोक्तिरलंकारः' इति साहित्यविद्याधरी।