पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४९.
षष्ठः सर्गः।

भूतः-वालावलीनामवरोधतरुणीपङ्क्तीनां वलितैः सविलासैः, पुनःपुनः प्रवृत्तैर्वा गुणौधैर्नृत्यगीतसौन्दर्यादिगुणसमूहर्वलितैरङ्गमोदनैर्गुणीधैश्च वा कृत्वा अन्तःपुरे विस्तृता वागुरा लक्षणया वशीकरणद्रव्यं येन । गुणा एव वागुरास्थाने यस्य जाता इत्यर्थः । अथ च केशपङ्क्तीनां वलितैस्त्रिगुणितैर्दोरकसङ्घैर्नगरमध्ये विस्तृतवागुरोपि । वालां नलः साभिलाषं नापश्यदित्य[१]र्थः॥

  दोर्मूलमालोक्य कचं रुरुत्सोस्ततः कुचौ तावनुलेपयन्त्याः।

  नाभीमथैष श्वथवाससोनु मिमील दिक्षु क्रमकृष्टचक्षुः ॥ २० ॥

 दोरिति ॥ एष नलः कचं केशपाशं रुरुत्सोर्वश्रुमिच्छोः कस्याश्चित्केशसंयमनादेव दोर्मूलं बाहुमूलमालोक्य ततस्तस्माद्देशात्किचिद्धोनमितदृष्टिः, ततश्चन्दनादिनाऽनुलेपयन्स्या विलेपयन्त्यास्तस्या एव तावतिसुन्दरौ कुचौ स्तनावालोक्य ततोऽपि किंचिन्नमितदृष्टिः । अथ कुचलेपनानन्तरं नाभीविलेपनार्थं श्लथवाससःश्लथीकृतवसनायास्तस्या एव नाभीमालोक्य ततोऽप्यधोनमितदृष्टिः । एवं दिक्षूर्ध्वदेशादधोदेशे क्रमेण कृष्टं समाकृष्टं चक्षुर्येन एवंभूतः सन् अनुपश्चादनवलोकनीयस्य कस्याप्यङ्गस्यावलोकनप्रसङ्गान्मिमील नेत्रनिमीलनमेव चकार । अत्राप्युत्तमत्वं सूचितम्’[२]

  मीलन्न शेकेऽभिमुखागताभ्यां धर्तुं निपीड्य स्तनसान्तराभ्याम् ।

  स्वाङ्गान्यपेतो विजगौ स पश्चात्पुमङ्गसङ्गोत्पुलके पुनस्ते ॥२१॥

 मीलन्निति ॥ मीलन्संकोचितनयनः स नलोऽभिमुखं संमुखमागताभ्यां स्त्रीभ्यां मध्ये विद्यमानो निपीड्य नितरां पीडनं कृत्वा धर्तुं न शेके न शक्तः। यतः-स्तनाभ्यां कृत्वा सान्तरे व्यवधानसहिते ताभ्याम् । उभयोरुच्चैः स्तनावेव परस्परमिलितो, न तु तयोः परस्परसंश्लेषो जातः, स्तनसान्तरत्वात् । ताभ्यामपेतो निर्गतः सन् पश्चात्स्वाङ्गानि स्वीयानवयवान् परस्त्रीसंसर्गाद्विजगौ विशेषेण निनिन्द, एतेऽनुपकारिण इति । ते स्त्रियौ पुनः पुंसोऽङ्गसङ्गेनोत्पुलके सात्त्विकभावोद्रोधाद्रोमाञ्चिते जाते । स्त्रीणां पापप्रधानत्वात्परपुरुषसंयोगेन तयो रोमाञ्चितत्वं जातम् । नलेन तूत्तमपुरुषत्वात्परस्त्रीसंसर्गादङ्गनिन्दा कृतेति भावः । धर्तुम् , शकियोगे [३]तुम् ॥

  निमीलनस्पष्टविलोकनाभ्यां कदर्थितस्ताः कलयन्कटाक्षैः।

  स रागदर्शीव भृशं ललज्जे स्वतः सतां ह्रीः परतोतिगुर्वी ॥२२॥

 निमीलनेति ॥ निमीलने परस्त्रीसंसर्गात्प्रकटविलोकने च विवस्त्रस्त्रीदर्शनात् , निमी. लनस्पष्टविलोकनाभ्यां कथितः पीडितः, अतस्तास्तरुणीरुभयपरिहारार्थ कटाक्षः कलयन्नवलोकयन् स नलो रागेणानुरागेण दर्शीव पश्यन्निव भृशं ललजे लजितः।


  1. 'अत्र विशेषोक्तिरूपकश्लेषालंकारसंसृष्टिः' इति साहित्यविद्याधरी
  2. ’ 'अत्र दीपकभावोदयालंकारसंकरः' इति साहित्यविद्याधरी।
  3. ’ 'अत्र हेतुभावोदयालंकारौं' इति साहित्यविद्याधरी