सौधाकरं चन्द्रसंवन्धि मण्डलमिव । अमावास्यायां सूर्यं प्रविष्टश्चन्द्रकिरणसमूहो यथा प्रतिपदि ततो निर्गत्य चन्द्रं प्रविशति । सूतं रथे संस्थाप्यकाकी नगरं प्रविष्ट इत्य[१]र्थः॥
चित्रं तदा कुण्डिनवेशिनः सा नलस्य मूर्तिर्ववृते नदृश्या ।
बभूव तच्चित्रतरं तथापि विश्वकदृश्यैव यदस्य मूर्तिः ॥६ ॥
चित्रमिति ॥ तदा तस्मिन्समये कुण्डिनवेशिनः पुरप्रवेशिनो नलस्य सा दृग्गोचरः, अथ चातिसुन्दरी मूर्तिः कायः दृश्या न ववृते दृग्गोचरः, अथ च सुन्दरी न ववृते नाभूदित्याश्चर्यम् । एतावन्तं कालं दृग्गोचरस्याकस्मादन्तर्हितत्वात् , सुन्दरस्य चेदानीमसुन्दरत्वादाश्चर्यम् । 'भूयादन्तधिसिद्धेः-' इति वचनादिच्छावशादन्तर्हितोऽभूदित्यर्थः । यद्यपि दृश्या नाभूत्तथाप्यस्य मूर्तिर्विश्वस्य सर्वस्य लोकस्यैका मुख्याऽसहाया वा दृश्यैव दृग्गोचर एव बभूवेति यत् तच्चित्रतरमतिशयितमाश्चर्यम् । अन्तर्हितस्याप्यन्तर्हितत्वे विरोधादाश्चर्यम् । अथ च सर्वस्मिञ्जगति एका रमणीयाभूत्तदतिचित्रम् । एतादृक्सौन्दर्यस्यान्यत्राभावात् । नदृश्येति नसमासो वा[२] ॥
जनैर्विदग्धैर्भवनैश्च मुग्धैः पदे पदे विस्मयकल्पवल्लीम्
तां[३] गाहमानास्य चिरं नलस्य दृष्टिर्ययौ राजकुलातिथित्वम् ॥९॥
जनैरिति ॥ तां पुरं गाहमाना विलोकयन्ती अस्य नलस्य दृष्टिः राजकुलातिथित्वं राजसदनातिथ्यं ययौ । राजमन्दिरं ददर्शैत्यर्थः । 'गाहमानस्य' इति पाठे राजविशेषणम् । राजकुलाभिमुख्यमिति क्वचित् । किंभूताम्-विदग्धैश्चतुरैर्जनैः, मुग्धैः सुन्दरैर्भवनैश्च कृत्वा पदेपदे विस्मयस्य कल्पवल्लीं कल्पलताम् । कल्पवृक्षसंवन्धिनीं वल्लीमित्यर्थः । अतिशयाश्चर्यकारिणीम् । 'कुलं जनपदे गृहे' इति वि[४]श्वः ॥
हेलां दधौ रक्षिजनेस्त्रसज्जे लीनश्चरामीति हृदा ललज्जे ।
द्रक्ष्यामि भैमीमिति संतुतोष दू[५]तं विचिन्त्य स्वमसौ शुशोच॥१०॥
हेलामिति ॥ असौ नलोस्त्रसज्जे शस्त्रसंनद्धे रक्षिजने राजगृहरक्षकलोके हृदा हेलामवज्ञां दधौ । एते मम किमपि कर्तुं न शक्नुवन्तीति । अहं लीनश्चौरबददृश्यो राजा सन् चरामीति विचार्य मनसा ललजे । तथा-अहमद्य भैमी द्रक्ष्यामीति हेतोह्रदा संतुतोष । तथा-अनन्तरं स्वमात्मनं दूतं विचिन्त्य हृदा शुशोच दुःखं कृतवान् । भैमीदर्शनेऽपि मम लोभो नास्तीति । हृदेत्यनेनावशादिसूचका करादिचेष्टा न कृतेत्यर्थः । प्रथमतृतीयचरणाभ्यां पुरुषानुरागावुक्तौ, द्वितीयचतुर्थाभ्यां तौ प्रशान्तीकृतौ । दूतस्य