पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४४
नैषधीयचरिते

  तां कुण्डिनाख्यापदमात्रगुप्तामिन्द्रस्य भूमेरमरावतीं सः ।
  मनोरथः सिद्धिमिव क्षणेन रथस्तदीयः पुरमाससाद ॥ ४॥

 तामिति ॥ स तदीयो नलसंबन्धी रथो भूमेरिन्द्रस्य भीमस्य कुण्डिनमित्याख्यापदमात्रेण संज्ञापदेनैव गुप्तां गोपिताममरावतीं तां पुरं क्षणेन शीघ्रमाससाद प्राप । स्वरूपतः साक्षादमरावती परं कुण्डिननामधेयेति विशेषः । कः कामिव-तपःप्रभाववतां मनोरथः सिद्धिमिव मनोरथदृष्टान्तेन रथस्यातिजवनत्वं सूचित [१]म् ॥

  भैमीपदस्पर्शकृतार्थरथ्या सेयं पुरीत्युत्कलिकाकुलस्ताम् ।
  नृपो निपीय क्षणमीक्षणाभ्यां भृशं निशश्वास सुरैः क्षताशः॥५॥

 भैमीति ॥ भैमीपदस्पर्शन कृतार्था रथ्या मार्गो यस्याः यत्र भैमी विचरति सेयं नगरी इति उत्कलिकाकुल उत्कण्ठाबाहुल्येन विमनाः स नृपो नलस्तां नगरीमीक्षणाभ्यां नेत्राभ्यां क्षणमात्रं निपीय सारं प्रेक्ष्य भृशं बहु निशश्वास निश्वसितवान् । यतो दूत्यादेशनात्सुरैः क्षताशः खण्डिताशः । भैम्या सार्धमत्राहं विचरामीति मनोरथेन पूर्वमुत्कण्ठितोऽभूत् । पश्चाद्दूत्यस्मरणादुःखितोऽभूदिति भा[२]वः ॥

  स्विद्यत्ममोदाश्रुलवेन वामं रोमाञ्चभृत्पक्ष्मभिरस्य चक्षुः ।
  अन्यत्पुनः कम्प्रमपि स्फुरत्वात्तस्याः पुरः पाप नवोपभोगम्॥६॥

 स्विद्यदिति ॥ भैमीनगरी मया दृष्टेति प्रमोदेन संसर्गप्रीतिजनितानन्देन जातो योऽश्रुलवो बाष्पलेशस्तेन स्विद्यत्स्वेदयुक्तम् । बाष्प एव स्वेदस्थाने जातो यस्यैवंभूतम् , पश्मभिर्नेत्ररोमभी रोमाञ्चभृद्रोमाञ्चयुक्तम् । तान्येव रोमाञ्चस्थाने जातानि यस्यैवंभूतम् , अस्य नलस्य वामं सव्यं चक्षुः तस्याः पुरः प्रथमदर्शनलक्षणं नवोपभोगं नूतनकामकेलि च प्राप । अन्यदक्षिणं चक्षुः पुनः स्फुरतीति स्फुरत् तद्भावेन कम्प्रमपि कम्पनशीलमपि । भैमीप्राप्तिसूचकं स्फुरणं प्राप्येति यावत् । एवंभूतं दक्षिणमपि तस्याः पुरो नवोपभोग प्राप । चलत्वं नयनस्य यद्यपि स्वभावतो विद्यते तथापि प्रियाप्राप्तिसूचकत्वादित्यस्य सार्थक्यम् । अन्यस्यापि स्वामिनो नवोपभोगे स्वेदादयः सात्त्विका भावाः प्रभवन्ति । दक्षिणनयनस्फुरणं भैमीलाभसूचकं शकुनं कथितम्[३]

  रथादसौ सारथिना सनाथाद्राजावतीर्याथ पुरं विवेश ।
  निर्गत्य बिम्बादिव भानवीयात्सौधाकरं मण्डलमंशुसङ्घः ॥७॥

 रथादिति ॥ अथासौ राजा नलः सारथिना सनाथादधिष्ठिताद्रथादवतीर्य पुरं विवेश। कः किमिव-अंशुसङ्घः भानवीयात्सूर्यसंबन्धिनो बिम्बान्मण्डलान्निर्गत्य निर्गम्य


  1. 'अत्र व्यतिरेकरूपकालंकारसंकरः' इति साहित्यविद्याधरी
  2. 'अत्र छैकानुप्रासकाव्यलिङ्गभावशबलतालंकारसंकरः' इति साहित्यविद्याधरी
  3. 'अत्र समासोक्तिरलंकारः' इति साहित्यविद्याधरी।