पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४२
नैषधीयचरित

संख्याकैरप्यङ्घ्रिभिश्वरणैः पङ्गुः पादरहितोऽभिव्यक्तीभवन्प्रकटीभवन् । अतः पितुः पङ्गुत्वात्पुत्रस्यापि पङ्गुत्वं युक्तमेवेत्यर्थः। त्वत्तेजः सूर्यतेजसोऽप्यधिकम्, तस्मात्त्वयास्मदिष्टं साधनीयमिति भावः । 'पादा रश्म्यङ्भितुर्याशाः' इत्यमरः । सहस्रपात्, 'संख्यासुपूर्वस्य' इति पादस्यान्तलोपः। पादेन खञ्जः,. अङ्घ्रिभिः पङ्गुरिति 'येनाङ्ग-' इति तृतीया । साहस्त्रैः, 'तदस्य परिमाणम्' इत्यर्थे 'शतमानविंशतिकसहस्त्र-' इत्यण्[१]

इत्याकर्ण्य क्षितीशस्त्रिदशपरिषदस्ता गिरश्चाटुगर्भा
 वैदर्भीकामुकोऽपि प्रसभविनिहितं दूत्यभारं बभार ।
अङ्गीकारं गतेऽस्मिन्नमरपरिवृढः संभृतानन्दमूचे
 भूयादन्तर्धिसिद्धेरनुविहितभवच्चित्तता यत्र कुत्र ॥ १२७ ॥

 इत्याकण्यति॥क्षितीशो राजा वैदर्भीकामुकोऽपि भैसीमभिलाषुकोऽपि प्रसभविनिहितं बलादारोपितं दूत्यलक्षणं भारं बभार । किं कृत्वा-इति पूर्वोक्तप्रकारेणोपहासस्यापि करणाच्चाटुगर्भाः प्रियोक्तियुक्तमध्याः त्रिदशपरिषदो देवसभायाः ताः पूर्वोक्ता गिरो वाणीराकर्ण्य । त्रिदशपरिषदः सकाशाद्वा । अन्योऽपि बलान्निहितं भारं दुःखेन वहति। अस्मिन्नलेऽङ्गीकारं गते प्राप्ते सति करिष्यामीति तेनाभ्युपगते सति अमरपरिबृढो देवप्रभुरिन्द्रः संभृतानन्दं सानन्दं यथा तथा तं नलं प्रति इत्यूचे । इति किम्-अन्तर्धिसिद्धेः यत्र तत्र सर्वत्र देशे काले अनुविहितमनुसृतं भवच्चित्तं यया तस्या भावोनुविहितभवच्चित्तता कार्यसिद्धिः भूयात् । यत्रादृश्यो भवितुमिच्छसि तत्रान्तर्धिसिद्धिर्भूयात् , यत्र नेच्छसि तत्र माभूत् ।'यामिकाननुपमृद्य-' इत्यादि परिहृतमनेन[२]

श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं
 श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।
तस्य श्रीविजयमशस्तिरचनातातस्य नव्ये महा-
 काव्ये चारुणि नैषधीयचरिते सर्गोडगमत्पञ्चमः ॥ ५॥

 श्रीहर्षमिति ॥ पूर्वार्धं पूर्ववदेव । श्रीविजयप्रशस्तिनाम्नो ग्रन्थस्य रचनया तातस्य जनकस्य । सापि तेन रचितेत्यर्थः । नव्ये नूतनप्रमेये चारुणि शोभने पञ्चमः पञ्चानां पूरणः सर्गः समाप्तः। नव्ये स्तुत्यर्हे इति, नुधातोः 'अर्हे कृत्य-' इति व्याख्येयम् ॥

इति श्रीवेदरकरोपनामकश्रीनरसिंहपण्डितात्मजनारायणकृते

नैषधीयप्रकाशे पञ्चमः सर्गः॥

  1. 'अत्रार्कस्यापङ्गोः पङ्गुत्वोक्तिरतिशयोक्तिभेदः, तद्धेतुत्वं च शनैश्चरे पङ्गुत्वस्योत्प्रेक्ष्यते इति संकरः' इति जीवातुः
  2. 'अत्र स्रग्धरा वृत्तम्' इति साहित्यविद्याधरी।