पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रथमः सर्गः।

पाने । क्षितिरक्षीत्यत्र ताच्छील्ये णिनिः । कथेति 'चिन्तिपूजि-' इति कर्मण्यङ् । आद्रियन्त इति 'दृङ् आदरे' इति तौदादिकान्ङित्त्वात्तङि प्रथमपुरुषे झे परतः विकरणे धातोः 'रिङ् शयक्-' इति रिङादेशेयङादेशयोः 'अतो गुणे' इति पररूपे च रूपं सिद्धम् । बुध्यन्त इति बुधाः 'इगुपध-' इति कः। सितच्छत्रितेत्यत्राचारक्विबन्तात्, 'तत्करोति-' इति ण्यन्ताद्वा निष्ठा । 'निष्टायां सेटि' इति णेर्लोपः । ज्वल इत्यत्र 'ज्वलितिकसन्तेभ्यो णः' इति णस्य पाक्षिकत्वात्पचाद्यच् । अस्य महाकाव्यत्वम् 'सर्गबन्धो महाकाव्यम्' इति लक्षणात् । नायकश्चात्र धीरललितः 'निश्चितो धीरललितः कलासक्तः सुखी मृदुः' इति । रसश्चात्र शृङ्गारः । स द्विविधः। संभोगशृङ्गारो विप्रलम्भशृङ्गारश्च । तस्यापरे रसा अङ्गभूताः। एवं सर्वत्र । अस्मिन्सर्गे 'इत्थममुम्' इति यावद्वंशस्थं वृत्तम्' ॥

रसैः कथा यस्य सुधावधीरणी नलः स भूजानिरभूङ्गुणाभ्दुतः ।
सुवर्णदण्डैकसितातपत्रितज्वलत्प्रतापावलिकीर्तिमण्डलः ॥ २॥

 रसैरिति ॥ सर्व वाक्यं सावधारणं भवति' इति न्यायात्स नल एव भूजानिर्महीपतिरभूत् । नान्य इत्यर्थः । भूर्जाया यस्येति । 'जायाया निङ् । स कः । यस्य कथा नवभिः शृङ्गारादिभी रसैः षड्रसां सुधामवधीरयति तिरस्करोतीत्येवंशीला सुधावधीरणी । सुधायाः षडूसत्वं व्याख्यातृप्रसिद्ध्या व्याख्यातम् । मधुररसयुक्तैव वा । यस्य कथा रसैः कृत्वा सुधाया अवधिम् । उत्कृष्टां सुधामिति यावत् । तामीरयति क्षिपतीत्येवंशीला । 'सुधावधीरिणी' इत्यपि पाठः । तत्रापि स एवार्थः। यद्वा-यस्य कथा रसैर्हेतुभिः सुधाया अवधिः । एतत्परममृतं नास्तीत्यर्थः । 'ढ्रलोपे-' इति दीर्घः । एतेनेन्द्रादिपरित्यागेन नले भैम्यनुरागस्यौचित्यम् । यद्वा-शोभनं धावतीति सुधावा पुण्यसंचारिणी धीर्यस्येति मन्त्रशक्तिमत्त्वं तस्य द्योत्यते । रणी नित्यं रणोऽस्यास्तीति । अनेनोत्साहशक्तिमत्त्वम् । भूजानिरित्यनेन प्रभुशक्तियुक्तत्वम् । गुणैः शौर्यादिभिः संधिविग्रहादिभिर्वाभ्दुत आश्चर्यरूपः । अत एव कवेरेतस्य वर्णनं युक्तम् । यद्वा-'रसा, ए:' इति पदद्वयम् । यस्य कथा ए: कामस्य रसा भूः स्थानम् । सर्वाभिलाषजनिकेत्यर्थः । कीदृशो नलः । सुवर्णेत्यादि । सुवर्णस्य दण्डः सुवर्णदण्डः । एकं च तत्सितं च तदातपत्रं चैकसितातपत्रम् । सुवर्णदण्डश्च एकसितातपत्रं च सुवर्णदण्डैकसितातपत्रे । सुवर्णदण्डैकसितातपत्रे कृते तद्वदाचरिते वा सुवर्णदण्डैकसितातपत्रिते । प्रतापस्यावलिः । ज्वलन्ती चासौ प्रतापावलिश्च ज्वलत्प्रतापावलिः। कीर्तेर्मण्डलं कीर्तिमण्डलम् । ज्वलत्प्रतापावलिश्च कीर्तिमण्डलं च ज्वलत्प्रतापावलिकीर्तिमण्डले । सुवर्णदण्डैकसितातपत्रिते ज्वलत्प्रतापावलिकीर्तिमण्डले येन यस्य वा ।


१अत्र श्रीहर्षेर्यमकमुरजसर्वतोभद्रप्रमुखान्बन्धानर्यापुष्टिकराननादृत्यार्थपुष्टिकरोऽनुप्रासाभिधशब्दालंकारः प्रायः प्रयुयुजे' इति चारित्रवर्धनविरचिततिलकव्याख्या । 'अत्र श्लोकेऽनुप्रासः शब्दालंकारः । सुधाकथयोरौपम्ये प्रतीते सति सुधानादरत्वेन कथाधिक्यप्रतिपादनाव्द्यतिरेकोऽर्थालंकारोऽपि । अन्यच्च नलसूर्यवर्णनयोः प्राकरणिकाप्राकरणिकयोः श्लिष्टपदोपनिबन्धे श्लेषालंकारोऽपि । सूर्येण सहाभेदप्रतिपादनाद्रूपकम् । तस्मात्तिलतण्डुलन्यायेनात्र संकरः' इति विद्याधरविरचितसाहित्यविद्याधरी ।