पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३८
नैषधीयचरिते

 अभ्रेति ॥ स्तोककस्य चातकस्यार्थिना याचकेन चञ्चुपुटेन सा प्रसिद्धा विमुखता पराङ्मुखत्वं यद्भाजि आश्रिता तत्खलु तस्मादेव हेतोः, तस्मादिव हेतोरित्युत्प्रेक्षा वा । म्लानिः चातकवैमुख्यजनिताकीर्तिः धनसङ्घे मेघसमूहे उल्लसति शोभते । किंभूते घनसङ्घे-शीतं शीतलमभ्रपुष्पं जलं दित्सति दातुमिच्छति । चातकेन याचिते जले कालविलम्बान्मेघानां श्यामत्वलक्षणमपयशो जातमिति भावः । अथ च-स्तोक एव स्तोककोऽतिनिकृष्टः, तस्यार्थिना मुखेन पराङ्मुखत्वं यदाश्रितम्, तत्तस्मात् मेघतुल्ये पुरुषे म्लानिरुल्लसति । यतः शीतलं दारिद्र्यहारि अभ्रपुष्पमपि खपुष्पतुल्यमपि वस्तु दातुमिच्छतः परं विलम्बकारिणो वदान्यस्यापि जीवितपर्यन्तमयशो भवति किं पुनरिन्द्रादीनां पराङ्मुखत्वेन, तस्मात्त्वया शीघ्रमेव देयमिति भावः । पक्षिणोऽपि विमुखतया मेघेऽपि म्लानिरुल्लसति, किं पुनरन्यत्रेत्यर्थः । तस्मादिन्द्रादीनां तत्त्वतो विमुखत्वेऽयशो भावि इति किं वक्तव्यमिति भावः । 'मेघपुष्पं धनरसः' इत्यमरः[१]

 ऊचिवानुचितमक्षरमेनं पाशपाणिरपि पाणिमुदस्य ।
 कीर्तिरेव भवतां प्रियदारा दाननीरझरमौक्तिकहारा ॥ १२८ ॥

 ऊचिवानिति ॥ पाशपाणिरपि वरुणोऽपि पाणिमुदस्योद्यम्य एनं नलमुचितम- क्षरं वचनमित्यूचिवान् । इति किम्-भवतां भवादृशां राज्ञां दाने क्रियमाणे यो नीरझरो जलप्रवाहः स एव मौक्तिकहारो यस्याः सा कीर्तिरेव प्रियदाराः प्रेयस्यः स्त्रियः, न तु राजकन्याः । अतः कीर्तिरेव त्वयोपार्जनीया नाकीर्तिः । पाणिमुदस्येति याचक[२]जातिः॥

 चर्म वर्म किल यस्य न भेद्यं यस्य वज्रमयमस्थि च तौ चेत् ।
 स्थायिनाविह न कर्णदधीची तन्न धर्ममवधीरय धीर ॥ १२९ ॥

 चर्मेति ॥ यस्य कर्णस्य चर्म त्वक् न भेद्यमभेद्यं वर्म कवचं किल श्रुतौ । येन कवचनिर्माणार्थ त्वग्दत्ता, यस्य च अस्थि वज्रमयम्, वज्रनिर्माणार्थे येन दधीचिना स्वीयमस्थि दत्तं तौ एवंविधौ वदान्यौ कर्णदधीची अपि इह भूलोके चेद्यस्मात्स्थायिनौ न किंतु मृतावेव । तत्तस्मात् हे धीर प्राज्ञ, त्वं धर्म नावधीरय मावज्ञासीः। धर्म एव स्थिरतरो न तु ख्यादिसुखं चेति भावः[३]

 अद्य यावदपि येन निबद्धौ न प्रभू विचलितुं बलिविन्ध्यौ।
 आस्थिता[४]वितथतागुणपाशस्त्वादृशा स विदुषा दुरपासः॥१३०॥

 अद्येति ॥ येन सत्यप्रतिज्ञत्वगुणलक्षणेन पाशेन निबद्धौ बलिविन्ध्यौ दैत्याचलौ अद्य यावदपि एतावन्तमपि कालं विचलितुं प्रतिज्ञातमनिर्वोढुं न प्रभू समर्थौ न जातौ ,


  1. 'अत्रोत्प्रेक्षा श्लेषश्च' इति साहित्यविद्याधरी
  2. 'अत्र च्छेकानुप्रासो रूपकं च' इति साहित्यविद्याधरी
  3. 'अत्र विरोधो हेतुश्च' इति साहित्यविद्याधरी
  4. आश्रुता इति जीवातुसंमतः पाठः ।