पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३७
पञ्चमः सर्गः।

 अब्रवीदिति ॥ अथ यमः भैमीप्राप्तिविघ्नसंभावनयाऽदृष्टं दुःखितं तं नलमब्रवीत्- 'हे वीरसेनकुलस्य दीप प्रकाशक नल, तमो भैम्यप्राप्त्य(प्ति)संभावनजन्यं दुःखं यत् त्वां किमपि अल्पमनिर्वाच्यं वाभिवुभूषत्यभिभवितुमिच्छति तत् चन्द्रवंशवसतेश्चन्द्र- वंशोत्पन्नस्य ते तव किं सदृशमुचितम्, अपि त्वयुक्तम् । चन्द्रवंशोत्पन्नो हि प्राणा- नपि ददाति, तदुत्पन्नेन त्वयापि तथैव भवितव्यं, न त्वन्यथेति भावः । अथ च दीपरूपं त्वां यदन्धकारमभिवुभूषति तच्चन्द्रवंशवसतेस्ते किमुचितम्, अपि त्वनुचितम् । दीपस्य तमसाभिभवो न युक्तः, तत्रापि चन्द्रवंशवसतेः । च[१]न्द्रस्यान्धकारेणाभिभवो न युक्तः, अतस्तद्वंशोत्पन्नस्य तवापि तस्मात्पराभवो न युक्त इत्युपहासः[२]

 रोहणः किमपि यः कठिनानां कामधेनुरपि या पशुरेव ।
 नैनयोरपि वृथाभवदर्थी हा विधित्सुरसि वास किमेतत् ॥१२५॥

 रोहण इति ॥ कठिनानां निष्ठुराणां पाषाणादीनां मध्ये यः किमपि लोकोत्तरो निष्ठुरो रोहणोविदूरोऽद्रिः मेरुः, अथ च निष्कृपाणां कृपणानां मध्ये लोकोत्तरः कृपणो यो विदूराचलः, यापि कामधेनुः सापि पशुरेव गौरेव, अज्ञैव च एनयो रोहणकामधे- न्वोरपि संबन्धी अर्थी याचकः वृथा निष्फलः नाभवत्, किं तु सफलो जातः । एनयोर्विषये वा । हा कष्टं हे वत्स, किमेतत् अर्थिप्रातिकूल्ये विधित्सुश्चिकीर्षुरसि । अचेतनेषु कृपणावधिः कठिनावधिश्च रोहणः, चेतनेषु पश्ववधिर्मूर्खावधिश्च कामधेनुः, ताभ्यामप्यर्थिनेभीष्टं दीयते । त्वं तु मृदुचित्तो बुधोपि, ततो देयमेवेति भावः । कि- मिति सामान्यनिर्देशान्नपुंसकत्वम् । एनयोः, अन्वादेश एनादेशः। रोहणो वैदूर्यः प- वतो वा[३]

 याचितश्चिरयति क्व नु धीरः प्राणने क्षणमपि प्रतिभूः कः ।
 शंसति द्विनयनी दृढनिद्रां द्राङ्गिमेषमिषघूर्णनपूर्णा ॥ १२६ ॥

 याचित इति ॥ धीरो याचितः सन् क्व नु कुतः चिरयति कालविलम्बं करोति, अपि तु न । कुतः-क्षणमपि मुहूर्तमात्रमपि प्राणने जीवने कः प्रतिभूर्लग्नकः, अपि तु न कोपि । अथ च को ब्रह्मा प्रतिभूः । विध्यधीनं जगत् । को ब्रह्मा प्रतिभूरिति काकुर्वा । तत्कुतः-द्राग् झटिति निमेषमिषेण नेत्रसंकोचव्याजेन घूर्णनेन तन्द्र्या पूर्णा द्विनयनी दृढनिद्रां मरणं कथयति । द्राग्दृढनिद्रामिति वा । यावता कालेन पुनरपि निमेषो भवति तावत्येव काले मरणं भवतीति निमेषतुल्यं मरणम्, तस्माद्विदुषा त्वयाविचारितं शीघ्रमेव दातव्यम् । मरणस्य शीघ्रप्राप्तिभयात् । अतिनिद्रितोपि घूर्णते[४]

 अभ्रपुष्पमपि दित्सति शीतं सार्थिना विमुखता यदभाजि ।
 स्तोककस्य खलु चञ्चुपुटेन म्लानिरुलंसति तदघनसङ्घे ॥ १२७ ॥


  1. 'अथ च तमो राहुस्त्वां यदभिबुभूषति तच्चन्द्रवंशवसतेस्ते किं युक्तं सदृशम् । किं प्रश्ने । राहुणा चन्द्रस्याभिभवनं सदृशमेवेत्युपहासः' इति तिलकसुखावबोधे
  2. 'अत्र रूपकम्' इति साहित्यविद्याधरी
  3. 'अत्र विरोधालंकारः' इति साहित्यविद्याधरी
  4. 'अत्र हेतुरपह्नुतिश्च' इति साहित्यविद्याधरी