पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३४
नैषधीयचरिते

 किं च--

 कुण्डिनेन्द्रसुतया किल पूर्वं मां वरीतुमुररीकृतमास्ते ।
 व्रीडमेष्यति परं मयि दृष्टेस्वीकरिष्यति न सा खलुयुष्मान्॥११४॥

 कुण्डिनेन्द्रेति ॥ कुण्डिनेन्द्रसुतया भैम्या पूर्वं किल आदावेव मां वरीतुमुररीकृतम- ङ्गीकृतमास्ते । किल श्रूयते वा। सा भैमी दूत्यार्थं गते मयि दृष्टे सति परं केवलं सात्त्विकभाववशाद्द्रीडं लज्जामेष्यति प्राप्स्यति । युष्मान् खलु निश्चयेन न स्वीकरिष्यति । मय्यनुरागवशान्मम प्राप्तौ भवद्दूत्यकथाकर्णनमपि कुतस्त्यमिति भावः । वाम- नाचार्यवचनाद्द्रीडशब्दः पुंलिङ्गो घञन्तोऽपि । 'व्रीडमावहति मे' इति रघौ 'व्रीडादिवा- भ्याशगतैः' इति माघे महाकविप्रयोगात् । उररीकृतम् , भावे क्तः[१]

 तत्प्रसीदत विधत्त न खेदं दूत्यमत्यसदृशं हि ममेदम् ।
 हास्यतैव सुलभा न तु साध्यं तविधित्सुभिरनौपयिकेन॥११५॥

 तदिति ॥ हि यस्मात्पूर्वोक्तप्रकारेण इदं दूत्यं मम अत्यसदृशमतितरामनुचितम् । त- त्तस्मात्प्रसीदत ममोपरि प्रसन्ना भवत, खेदं अनेनास्मद्वचो न कृतमिति चित्ते दुःखं मा कुरुत । अनौपयिकेनानुपायेन तद्दूत्यं विधित्सुभिर्विधातुमिच्छद्भिर्भवद्भिः हास्यतैवोप- हास्यत्वमेव सुलभा, न तु भैमीरूपं साध्यं सुलभम् । मदन्येन साध्यं साधनीयमित्यर्थः[२]

 ईदृशानि गदितानि तदानीमाकलय्य स नलस्य बलारिः।
 शंसति स्म किमपि स्मयमानः स्वानुगाननविलोकनलोलः ॥११६

 ईदृशानीति ॥ स बलारिरिन्द्रः तदानीं तस्मिन्समये नलस्य इति पूर्वोक्तानि गदितानि वचनान्याकलय्य विचार्य उपहासार्थं किमपीषद्धसन् शंसति स्म बभाषे । किंभूतः- अङ्गीकृतमपि पुनरनेन त्यज्यते - इति पश्यत इति विज्ञापनार्थं स्वानुगानामग्न्यादीना- माननविलोकने लोलः [३]

 नाभ्यधायि नृपते भवतेदं रोहिणीरमणवंशभुवैव ।
 लज्जते न रसना तव वाम्यादर्थिषु स्वयमुरीकृतकाम्या ॥११७॥

 नेति ॥ हे नृपते नल, रोहिणीरमणस्य चन्द्रस्य वंशे भव(ती)ति भूस्तेन पुरुषेणैव भ- वता इदं 'सेयमुच्चतरता-' इत्यादि 'कुण्डिनेन्द्रसुतया-' इतिपर्यन्तं नाभ्यधायि उ. क्तम् । चन्द्रकुलोत्पन्नो ह्यङ्गीकरोत्येव, अङ्गीकृतं च परिपालयत्येव, त्वया तु सोमवं. शोत्पन्नेनाप्यङ्गीकृतमसोमवंश्येनेव न परिपाल्यत इत्यर्थः । अर्थिषु याचकेषु 'जीविता- वधि किमप्यधिकं वा-' इत्यादिना स्वयमात्मनैवोरीकृतमङ्गीकृतं काम्यं याचकाभिल-


  1. 'अत्र काव्यलिङ्गम्' इति साहित्यविद्याधरी
  2. 'अत्र हेतुः' इति साहित्यविद्याधरी
  3. 'अत्रानुप्रासः' इति साहित्यविद्याधरी