पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२५
पञ्चमः सर्गः।

  याचमानजनमानसवृत्तेः पूरणाय बत जन्म न यस्य ।

  तेन भूमिरतिभारवतीयं न द्रुमैर्न गिरिभिर्न समुद्रैः ॥ ४ ॥

 याचमानेति ॥ यस्य पुरुषस्य जन्म उत्पत्तिर्याचमानस्य जनस्य मानसवृत्तमनोरथस्य पूरणाय समर्था न भवति तेन पुंसा इयं भूमिरतिभारवती वत कष्टम् । न द्रुमैः, न गिरिभिः, न समुद्रैः, भारवती । तेन पुंसा यावान्भूमेर्भारः, तावान्वृक्षादिभिर्न । एते तु क्वचित्पुष्पादिना औषधादिना रत्नादिना चोपकुर्वन्ति, न त्वदाता । तस्माद्याचकाभिलाषपूरणं करणीयमिति भावः[१]

  मा धनानि कृपणः खलु जीवस्तृष्णयार्पयतु जानु परस्मै।

  तत्र चैष कुरुते मम चित्रं यत्तु नार्पयति तानि मृतोऽपि ॥१९॥

 मेति ॥ कृपणोऽतिलुन्धो जीवन तृष्णयातिलोभेन परस्मै अथिने जातु कदाचिदपि धनानि खलु निश्चितं मार्पयतु मास्स दात् । जीवित्वा लोभसद्भावान्न ददातीत्यत्र नाश्चर्यम्, मृतोऽप्येष कृपणो यत्तु पुनः तानि धनानि नार्पयति न प्रयच्छति तत्र च तत्र पुनः तत्रैव वा विषये मम चित्रमाश्चर्य कुरुते, मृतस्यापि लोभसद्भावात् । अथ च मृतः सन्नयं कृपणः धनानि नृपसंबन्धीनि राजायत्तानि नाणि करोति नापयति तत्राश्चर्यम् । यो जीवन्कस्मैचिन्न ददाति स मृतोऽपि राज्ञे ददातीत्याश्चर्यम् । तस्माद्यावजीवति तावद्दातव्यं मृते राजा नेष्यतीति भावः [२]

  माममीभिरिह याचितवद्भिर्दातृजातमवमत्य जगत्याम् ।

  यद्यशो मयि निवेशितमेतन्निष्क्रयोऽस्तु कतमस्तु तदीयः ॥९०॥

 मामिति ॥ इह जगत्यां भूलोके दातृजातं वदान्यमात्रमवमत्यानादृत्य मां याचितवद्भिर्याचमानरमीभिरिन्द्रादिभिः मयि यद्यशो निवेशितम् । इन्द्रादयो यस्य याचका जाता इत्यसाधारण्येन मम कीर्तिः कृता एतस्याः कीनिष्क्रयो विनिमयः तदीय इन्द्रादिसंबन्धी कतमस्तु कः पुनः पदार्थः अस्तु भवतु । इन्द्रादिभिः पूर्वमन्यः कोऽपि चेदयाचिष्यत तर्हि तदेव वस्तु कीर्तिविनिमयं समभविष्यत् , न त्वेवमित्येतत्कीर्तितुल्यमेतेभ्यो वितरणीयं विनिमयं वस्तु नास्तीति भावः। यदेतद्यश इति वा । स्वलोंके वर्तमानं कल्पवृक्षादिदातृवर्गमिति वा । दानं तावत्तिष्ठतु, यशोवितरणस्य मूल्यमपि दातव्यमित्य[३]र्थः॥

  लोक एष परलोकमुपेता हा विहाय निधने धनमेकः ।

  इत्यमुं खलु तदस्य निनीपयर्थिबन्धुरुदयद्दयचित्तः ॥ ९१ ॥

 लोक इति ॥ एष लोको निधने मरणे प्राप्ते धनं विहाय एक एवासहाय एव परलो.

  1. 'अत्राप्यसंबन्धे संबन्धातिशयोक्तिः' इति साहित्यविद्याधरी
  2. 'अत्र श्लेषः' इति साहित्यविद्याधरी ।'विरोधाभासोऽलंकारः' इति जीवातुः।
  3. 'अत्र च्छेकानुप्रासः' इति साहित्यविद्याधरी।