पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२३
पञ्चमः सर्गः।

 जीविताधिका भैमी तस्मै दीयतामित्याशङ्क्याह

  भीमजा च हृदि मे परमास्ते जीवितादपि धनादपि गुर्वी ।

  न स्वमेव मम सार्हति यस्याः षोडशीमपि कलां किल नोर्वी ॥८२॥

 भीमजेति ॥ अपिशब्दश्वशब्दो वा किंचेत्यर्थे । उर्वी यस्या भैम्याः षोडशीमपि कलां षोडशभागं किल निश्चितं नार्हति यत्संवन्धी पोडशोपि भागः समग्रपृथ्वीलक्षणमूल्यलभ्यो न भवति सा भीमजा जीवितादपि धनादपि गुर्वी मूल्यरहिता मम हृदये परं केवलमास्ते विद्यते । किल यतः सा भैमी मम स्वं नैव । केवलं तामभिलष्यामि परं सा मदधीना न भवत्येव । यत्र स्वकीयत्वं तदेव दातुं शक्यते भैम्यां स्वकीयत्वाभावात्तद्वितरणमशक्यमिति कथं चेतः संतुष्यतीति भावः । अथ च राजभिर्यनिमित्तं बन्धुवित्तादिव्ययः क्रियते सा पृथ्वी राज्ञां परमं स्वं धनं तदपि यस्याः षोडशं भागं नार्हति सा राज्ञो मम स्वं कथम् । अपि तु न कथंचिदित्यर्थः । अथ च यस्याः षोडशी कलां मम स्वमेव स्वरूपमेव नार्हति किं पुनः समना उर्व्यापि । किल यस्मात्क्रमेण जीवितादापि गुर्वी पृथ्वीरूपाद्धनादपि परमतिशयेन गुर्वी सा मबृदये आस्तेऽतो दातुमयोग्या इन्द्रेण दुर्लभा वेति व्याख्येय[१]म् ॥

  मीयतां कथमभीप्सितमेषां दीयतां कथमयाचितमेव ।

  तं धिगस्तु कलयन्नपि वाञ्छामर्थिवागवसरं सहते यः ॥८३॥

 मीयतामिति ॥ अर्थाद्यथा तथेति संबध्यते । मयायाचितमेवाप्रार्थितमेव शीघ्रमेतेभ्यो यथा दीयतां तथा एषामभीप्सितं वस्तु कथं मीयतां ज्ञायताम् । अभीप्सितज्ञानेन विना दातुं न शक्यतेऽतोऽकथितमप्यभीप्सितं ज्ञातं भवति चेत्तर्हि अप्रार्थितमेव दीयत इत्यर्थः। ननु शातेऽप्ययाचितं किमिति दातव्यमित्यत आह–'गत्वा यहीयते दानं तदनन्तफलं स्मृतम् । सहस्रगुणमाहूय याचिते तु तर्धकम् ॥ इति वचनप्रामाण्याद्वाञ्छां याचकस्याभीष्टं कलयन्नपि जानन्नपि यः एतद्याचनानन्तरं दास्यामीति अर्थिवाचोऽवसरं सहते प्रतीक्षते तं धिगस्तु । सोऽधम इति किं वाच्यम् । तस्मादयाचितमेव देयमिति भावः । एषाम् , 'क्तस्य च वर्तमाने' इति षष्ठी । अभीप्सितम् , 'मतिबुद्धि-' इति वर्तमाने क्तः। कलयन्निति हेतौ शता [२]


  प्रापितेन चटुकाकुविडम्ब लम्भितेन बहुयाचनलज्जाम् ।

  अर्थिना यदधमर्जति दाता तन्न लुम्पति विलम्ब्य ददानः ॥८४॥

 प्रापितेनेति ॥ दाता अर्थिना कृत्वा यदघं पातकमर्जति विलम्ब्य चिराद्ददानो दाता तत्पातकं न लुम्पति परिमाष्टुं न शक्नोति । अधिकस्य सुकृतस्य का कथेत्यर्थः । किंभूतेनार्थिना-चटु प्रियवाक्यं, काकु दीनवाक्यं, ताभ्यां विडम्बं पराभवं प्रापितेन स्वस्य प्रियं दैन्यं च वादितेन । तथा-बहु अनेकवारं याचनं, तेन कृत्वा या लजा


 

  1. 'अत्रातिशयोक्तिः' इति साहित्यविद्याधरी।
  2. 'अत्रातिशयोक्तिः' इति साहित्यविद्याधरी।