पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२२
नैषधीयचरिते

 कपटाभिप्रायमजानतो नलस्य धीरोदात्ततां पञ्चदशभिः श्लोकैराह-

  अर्थिनामहृषिताखिललोमा खं नृपः स्फुटकदम्बकदम्बम् ।

  अर्चनार्थमिव तच्चरणानां स प्रणामकरणादुपनिन्ये ॥ ७९ ॥

 अर्थीति ॥ दानशूरत्वात् अर्थी इति नाम्ना श्रुतेन हृषितानि विकसितान्यखिलानि लोमानि यस्य स नृपो नलः प्रणामकरणाद्भक्तिश्रद्धादिप्रकृष्टनमस्कारकरणाद्धेतोः, तच्चरणानामर्चनार्थमर्चनायै स्वमात्मानमुपनिन्ये तच्चरणसमीप उपहृतवान् । कमिव -स्फुटकदम्बकदम्बकमिव रोमाञ्चितत्वाद्विकसितनीपकुसुमसमूहमिवेति स्वपदविशेषणम् । तत्तुल्यमित्यर्थः । कदम्बपुष्पैरपि भक्तेन देवार्चना क्रियते । स्वमङ्गमेव पूजोचितकदम्बपुष्पसदृशं कृत्वार्पयामासेत्यर्थः । हृषित इति 'हृषेर्लोमसु' इतीट् [१]

  दुर्लभ दिगधिपैः किममीभिस्तादृशं कथमहो मदधीनम् ।

  ईदृशं मनसिकृत्य विरोधं नैषधेन समशायि चिराय ॥८०॥

 दुर्लभमिति ॥ नैषधेन नलेन ईदृशं याच्ञादानयोः परस्परविरोधं मनसिकृत्य विचार्य चिराय चिरकालं वक्ष्यमाणप्रकारेण समशायि संशयितम् । ईदृशं कथम्-अमीभिर्दिगधिपैदिक्पालैः किं वस्तु दुर्लभम् , अपितु न किमपि तादृशम् । यदिक्पालैर्दुर्लभं वस्तु तन्मदधीनं कथम् , अहो आश्चर्यमिति संशयः। दिगधिपैः, खलर्थयोगे षष्ठी निषेधात्तृतीया । मनसिकृत्य 'अनत्याधान उरसिमनसी' इति वा गतिसंज्ञायां 'ते प्राग्धातोः' इति प्राक्प्रयोगे अनञि [२]समासे ल्यप् । अत्याधान उपश्लेषे तु गतिसंज्ञाभावात् उरसि कृत्वा पाणिं शेते इति [३]ल्यबभावः॥

 तमेव सशयमाह-

  जीवितावधि वनीयकमात्रैर्याच्यमानमखिलैः सुलभं यत् ।

  अर्थिने परिवृढाय सुराणां किं वितीर्य परितुष्यतु चेतः ॥८१॥

 जीवितेति ॥ अखिलैः समस्तैरपि वनीयकमात्रैः इन्द्रसकाशान्यूनः पात्रलक्षणराहतैः केवलैर्याचकैः जीवितमवधिर्यस्य एवंविधं प्राणपर्यन्तं याच्यमानं याचितं यद्वस्तु सुलभं सुप्रापं यद्यस्माद्वा सुलभं तत् , अर्थान्मत्सकाशादथिने याच काय सुराणां परिवृढाय प्रभवे इन्द्रायान्ययाचकेभ्योऽधिकाय किं वितीर्य दत्त्वा ममास्य च चेतोऽन्तःकरणं परितुष्यतु संतुष्टं भवतु । जीवितपर्यन्तं यस्मैकस्मैचिद्दीयते, देवेन्द्राय दातुं योग्य वस्तु जीवितादधिकं नास्त्येव यहातव्यम् । 'अखिलम्' इति वा पाठः । 'वनीयको याचनको मार्गणो याचकार्थिनौ' इत्यमरः ॥


 

  1. 'अत्रा रूपकोत्प्रेक्षापड्तयश्च' इति साहित्यविद्याधरी
  2. 'कुगतिप्रादयः' इति सूत्रेणेति भावः ।
  3. समासाभावेनेत्यादिः।