पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२१४
नैषधीयचरिते

  उर्वशी गुणवशीकृतविश्वा तत्क्षणस्तिमितभावनिभेन ।

  शक्रसौहृदसमापनसीमस्तम्भकार्यमपुषडपुषैव ॥ ५२ ॥

 उर्वशीति ॥ गुणैः सौन्दर्यादिभिर्वशीकृतं विश्वं यया सा उर्वशी देवाङ्गना तस्मिन्नेव क्षणे स्तिमितभावस्य निश्चलत्वस्य निभेन व्याजेन शक्रसौहृदस्य इन्द्रस्नेहस्य समापनं समाप्तिस्तस्य सीमायां मर्यादायां स्तम्भस्य कार्य मर्यादाज्ञापनलक्षणं वपुषैवापुषज्ज्ञापितवती । इयत्कालं शक्रसौहृदं नातःपरमित्यवधिज्ञापनं निश्चलत्वात्स्तम्भतुल्येन शरीरेणैव कृतवतीत्यर्थः। अतिसचिन्तत्वात्स्तब्धा जातेति भावः । सीमायामपि समाप्तिज्ञापकस्तम्भो भवति । सौहृद इत्यत्र 'हृद्भग-' इत्युभयपदवृद्धिर्न 'संज्ञापूर्वको विधिरनित्यः' इति परिभाषया । अन्ये तु अर्थवत्परिभाषया सुहृदुईदौ मित्रामित्रयोः' इति निपातितस्य सुहृच्छब्दस्य योऽवयवो हृच्छब्दस्तदन्तस्योत्तरपदस्य वृद्धिर्न भवतीति व्याचक्षते । समुदायस्त्वत्र मित्रवचनोऽवयवस्तु निरर्थक इति रक्षितोक्तेः। अपुषत् , 'पुष्या(पा)दिद्युता-' इत्य[१]ङ्॥

अनुरागवशाल्लोकापवादोऽपि तेनावशात इति श्लोकद्वयेनाह-

  कापि कामपि बभाण बुभुत्सु शृण्वति त्रिदशभर्तरि किंचित् ।

  एष कश्यपसुतामभिगन्ना पश्य कश्यपसुतः शतम[२]न्युः ॥ ५३ ॥

 कापीति ॥ कापि देवाङ्गना सर्वा अपि देवाङ्गनाः किमित्येवं सचिन्ताः, किं जातमिति बुभुत्सुं ज्ञातुमिच्छुं कामपि स्त्रियं त्रिदशभर्तरीन्द्रे किंचिच्छृण्वति सति सोपहासं बभाणोवाच । एष कश्यपसुतः शतमन्युः शतयज्ञ' इन्द्रः कश्यपसुतां पृथ्वीमभिगन्ता लक्षीकृत्य गमिष्यति पश्य। इति वाक्यार्थः कर्म । पृथ्वीं गच्छतीन्द्रस्ततो हेतोरेताः सचिन्ताः। कश्यपमुनेः पुत्रोऽपि शतयज्ञोऽपि कश्यं मद्यं पिबतीति मद्यपकन्यां गच्छतीत्यप्याश्चर्यम् । पामरेणापि न क्रियते, विशिष्टकुलोत्पन्नेनानेकयज्ञकारिणाऽनेन तु मद्यपकन्यागमनं क्रियत इत्याश्चर्यम् । अथ च कश्यपपुत्रः कश्यपपुत्री भगिनीं गच्छतीत्याश्चर्य पश्य । तत्राप्यनेकयज्ञकारी । अथ च मद्यपपुत्रो मद्यपस्यैव पुत्री भगिनीं गच्छतीति नात्र चित्रम् । यतः शतमन्युर्लक्षणयानेकापराधः । मद्यपस्य निषिद्धकारित्वं नाश्चर्यकारि । 'मन्युः क्रोधे तौ दैन्ये' इति विश्वः । अभिगन्ता इति लु [३]ट् ॥

  आलिमात्मसुभगत्वसगर्वा कापि शृण्वति मघोनि बभाषे ।

  वीक्षणेऽपि सघृणासि नृणां किं यासि न त्वमपि सार्थगुणेन॥५४॥

 आलिमिति ॥ आत्मनः सुभगत्वे सौन्दर्यविषये सगर्वा कापि देवाङ्गना मघोनिण्यति सति आलिं सखीं बभाषे-नृणां वीक्षणेऽपि किमिति सघृणासि जुगुप्सासहितासि त्वमपि सार्थगुणेन सङ्गानुरोधेन न यासि जुगुप्सां परित्यज्य मनुष्यावलो-


 

  1. 'अत्रापहुतिश्छेकानुप्रासश्च' इति साहित्यविद्याधरी।
  2. 'शतयज्ञः' इति पाठमाश्रित्य व्याख्यातं तिलकजीवातुसाहित्यविद्याधरीषु
  3. 'अत्रानुप्रासविरोधाभासौं' इति साहित्यविद्याधरी।