पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२१२
नैषधीयचरिते

 मदनस्यौषधोपदेशे कुतः सामर्थ्यमित्यत आह----

  नाकलोकभिषजोः सुषमा या पुष्पचापमपि चुम्बति सैव ।

  वेनि ताहगभिषज्यदसौ तद्द्वारसंक्रमितवैद्यकविद्यः ॥ ४६ ॥

 नाकेति ॥ नाकलोकस्य स्वलॊकस्य भिषजोवैद्ययोर्या सुषमा परमा शोभा सैव शोभा पुष्पचापमपि काममपि चुम्बति स्पृशति । तयोरेव शोभा मदने समागतेति वेनि । यतोऽसौ मदनः तादृक् स्ववैद्यरूपः सन् अभिषज्यदचिकित्सत् । किंभूतः-सैव सुषमैव द्वारं तेन कर्तृभूतेन संक्रमिता संक्रान्ति प्रापिता समावेशिता वैद्यकविद्या आयुर्वेदशास्त्रं यस्मिन्मने । शोभाद्वारेण करणेनात्मनि संक्रमिता वैद्यकविद्या येन वा । अतः कामस्य भिषक्त्वं संगतमिति भावः । अमन्तत्वात्क्रमो मित्त्वाद्ह्रस्वत्वे संक्रमितमिति साधुः । तारकादेराकृतिगणत्वादितचा वा । विद्या वेत्तीति वैद्य इत्यणन्तात्तस्य कर्मेति 'योपधाद्गुरूपोत्तमात्-' इति वुञ् । अभिषज्यत्, 'भिषज रोगापनयने' कण्ड्वादित्वाद्यक् [१]

 इन्द्रे भैमीमभिलषति सतीन्द्राण्यादीनामिन्द्रपरित्यागजन्यामवस्थां षभिः श्लोकैराह--

  मानुषीमनुसरत्यथ पत्यौ खर्वभावमवलम्व्य मघोनी।

  खण्डितं निजमसूचयदुच्चैर्मानमाननसरोरुहनत्या ॥ ४७ ॥

 मानुषीमिति ॥ अथ पत्याविन्द्रे खर्वभावं नीचत्वमवलम्ब्याङ्गीकृत्य मानुषीं भैमीमनुसरति जिगमिषति सति मघोनीन्द्राणी आननसरोरुहस्य चिन्तावशान्नत्या नम्रतया निजं स्वीयमुच्चैर्महान्तं मानमहङ्कारं पूजनं वा खण्डितमसूचयत् । आननसरोरुहनत्या कृत्वा खण्डितमिति वा । अथ च खर्वत्वं ह्रस्वत्वम् । यो हि वामनत्वमङ्गीकरोति तस्यैव परिमाणेन न्यूनत्वं भवितुं युक्तं नान्यस्येति, अत्र तु विपरीतम् । मानुषीम्, जातिवाचित्वान्ङीष् । मघोनी, 'पुंयोगात्-' इति ङीषि 'श्वयुव-' इति संप्रसारणम्[२]

  यो मघोनि दिवमुच्चरमाणे रम्भया मलिनिमालमलम्भि।

  वर्ण एव स खलूज्ज्वलमस्याः शान्तमातरमभाषत भङ्गया ॥४८॥

 य इति ॥ रम्भया देवाङ्गनया मधोनीन्द्रे दिवमुच्चरमाणे त्यक्त्वा गच्छति सति यो मलिनिमा मालिन्यं अलमत्यर्थमलम्भि प्राप्तः [३] स मलिनिमरूपो वर्ण एव खलु निश्चयेनास्या रम्भाया उज्ज्वलं हर्षयुक्तमान्तरं हृदयं भझ्या आकारविशेषेण शान्तं निर्विणं दुःखयुक्तमभाषतावोचत् । उज्ज्वलस्य मालिन्यमनुपपद्यमानं सदापत्त्या


 

  1. ’अत्रोप्प्रेक्षा’ इति साहित्यविघाधरी
  2. 'अत्र निर्वेदव्यभिचारिभावोदयोऽपद्भुतिरलंकारः' इति साहित्यविद्याधरी।
  3. (स एव मलिनिमलक्षणो वर्णोऽस्या रम्भाया आन्तरं हृदयसंबन्धिनमुज्ज्वलं वर्ण धावल्यं शान्तमभाषत । यथा (अथच) स एव वर्णः उज्ज्वलं धावल्यम् आन्तरं हृदयं शान्तमचष्ट इत्यन्वयः । बहिर्मालिन्येनान्तरमपि मालिन्यमनुमितमित्यर्थः । यथा (अथ च) स एव मलिनिमा वर्ण उज्ज्वलं गर्विष्ठमन्तरं हृदयं शान्तं शीतलमाह स्म) इति पुस्तकान्तरेऽधिकः पाठः ।