पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०४
नैषधीयचरिते

  भिक्षिता शतमखी सुकृतं यत्तत्परिश्रमविदः स्वविभूतौ ।

  तत्फले यदि परं तव हेला क्लेशलब्धमधिकादरदं तु ॥२१॥

 भिक्षितेति ॥ हे इन्द्र, त्वया शतमखी सुकृतं पुण्यं भिक्षिता । याच्यर्थत्वाहिकर्मकः। यागशतं कृत्वा यत्पुण्यमुपार्जितं तस्या भिक्षायाः परिश्रमविद आयासवेदिनस्तव तस्य पुण्यस्य फले कार्य स्वविभूतौ स्वाराज्यलक्षणायां विभूतौ स्वीयसंपदि यदि हेला बहु न मन्ये इति (पूर्वश्लोके) वचनावज्ञा, तर्हि भिक्षायासवेदिनस्तव परं केवलं हेला नान्यस्य कस्यापि । बहुक्लेशार्जितायां संपदि अन्योऽवशां नैव करोति । तु यस्मात्क्लेशेन प्रयासेन लब्धं वस्तु स्वस्मिन्नधिकमाद्रं ददाति करोतीति ज्योतिष्टोमादियशजन्ये कालान्तराविनि फले स्वाराज्येऽवज्ञा, अतिथिषु चादर इति त्वय्येव दृष्टं नान्यत्रापीति भावः । शतमखानां समाहारः शतमखी । 'हेलावज्ञाविलासयोः' इति वि [१]श्वः ॥

  संपदस्तव गिरामपि दूरा यन्न नाम विनयं विनयन्ते ।

  श्रद्दधाति क इवेह न साक्षादाह चेदनुभवः परमाप्तः ॥ २२ ॥

 संपद् इति ॥ इयत्तया वक्तुमशक्यत्वागिरामपि वाचामपि दूरा अगोचरा अपि तव संपदो यत् नाम निश्चितं ते विनयं नम्रत्वं न विनयन्ते दूरीकुर्वन्ति । इहात्र विषये परमाप्तोऽतिमित्रम् , अव्यभिचारी च साक्षादनुभवः प्रत्यक्षोपलब्धिश्चेद्यदि नाह न ब्रूते तर्हि क इव श्रद्दधाति विश्वसिति, अपि तु न कोऽपि । संपत्स्वविनयो नियत इति सर्वेषां मतम्, तत्तु त्वयि प्रत्यक्षेण विनयस्य दृष्टत्वादाधितमिति भावः । साक्षात्स्वयं चेन्नाहेति वा । नाम संभावनायां वा । अन्यत्रापि वस्तुनि साक्षात्प्रतीत्यानुभवेनानुमानज्ञानेन परमाप्तवचनेन वा विश्वासो भवति । अत्र पूर्वोक्ते विषये परमाप्तोनुभ- वश्चेत्साक्षादाह तर्हि को वा न विश्वसितीति वा । स्तुतेः प्रायेणालीकत्वात्सर्वेणापि सर्वस्य स्तुतिः क्रियते, तव तु न तथा । अनुभवश्चेन्न कथयति तदिहासु विशिष्टासु संपत्सु विषये क इव विश्वसितीति वा । 'विनयन्ति' इति पाठः साधी[२]यान् ॥

  श्रीभरानतिथिसात्करवाणि खोपभोगपरता न हितेति ।

  पश्यतो बहिरिवान्तरपीयं दृष्टिसृष्ठिरधिका तव कापि ॥ २३ ॥

 श्रीति ॥ हे इन्द्र, इति अन्तरपि अन्तःकरणेऽपि बहिरिव बहिर्देश इव पश्यतो जानतोऽवलोकयतश्च तवैवेयं वर्णयितुमशक्या अधिका भूयसी काप्यनिर्वचनीया दृष्टिसृष्टिनिसृष्टिश्च । इति किम्-अहं श्रीभराञ्श्रीसमूहानतिथिसाद्देयत्वेनातिथ्यधीनान् करवाणि कुर्याम् । तथा स्वोपभोगपरता आत्मन एवोपभोगतात्पर्यं हिता न श्रेयस्करं न भवतीति । यथा बहिर्बहुभिर्नेत्रैः सर्वमवलोकयसि, तथान्तःकरणेऽपि सर्वं करणीयं ज्ञानदृष्ट्यावलोकयसि, एवंविधस्त्वमेव नान्य इति भावः। 'दृष्टिार्ज्ञानेऽक्ष्णि दर्शने' इत्य [३]मरः॥


  1. 'अत्र काव्यलिङ्गम्' इति जीवातुसाहित्यविद्याधर्यो
  2. 'अत्रातिशयोक्तिः' इति जीवातुसाहित्यविद्याधर्यो
  3. 'अत्रातिशयोक्तिव्यतिरेकसंदेहोपमासंकरः' इति साहित्यविद्याधरी