पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०३
पञ्चमः सर्गः।

द्रूपा एव । तासु संपपासु विपत्सु सतीषु आसां संपदां पात्रस्य पाणिलक्षणे कमले अर्पणं दानं शान्तिकः शान्तिप्रयोजनको विधिर्होमादिः विधिना वेदेन शास्त्रेण, ब्रह्मणा वा दृष्टः उक्तः। विपत्सु हि शान्तिकं क्रियते । कमलस्य दानजलस्य वा । पात्रेभ्यो यावन्न दीयन्ते तावत्संपदो विपद एव । दाने पुण्यवृद्धे संपदां संपद्रूपता । पात्रे दानं विना मम चेतो न तुष्यतीत्यर्थः । 'न विद्यया केवलया तपसा वापि पात्रता । यत्र वृत्तमिमे चोभे तद्धि पात्रं प्रकीर्तितम् ॥' इति याज्ञवल्क्यः[१]

  तद्विमृज्य मम संशयशिल्पि स्फीतमत्र विषये सहसाघम् ।

  भूयतां भगवतः श्रुतिसारैरद्य वाग्भिरघमर्षणऋग्भिः ॥ १४ ॥

 तदिति ॥ हे मुने, श्रुतिसारैः श्रवणयोः सारैः सुधाभूतैर्वेदेषु श्रेष्ठभूतैश्च भगवतो वाग्भिर्वचनैः अद्य इदानीमघमर्षणस्य दुःखस्य पातकस्य च मार्जनस्य संबन्धिभिर्ऋग्भिभूयताम् । 'ऋतं च सत्यं च-' इत्यघमर्षणऋचः पापं नाशयन्ति । अघमर्षणसंवन्धिन्य ऋचः। अघं मर्षयन्ति क्षालयन्ति । नन्द्यादित्वाल्लयुः । किं कृत्वा-ते मम साभिशापत्वादन्यहेतोर्वात्र नागच्छन्तीति अत्र विषये संशयशिल्पि संदेहकारि स्फीतं प्रवृद्धं (मम ) अघं दुःखं, पातकं च सहसा झटिति विमृज्यापनीय । भूयतामिति भावे लका[२]रः॥

  इत्युदीर्य मघवा विनयार्धि वर्धयन्नवहितत्वभरेण ।

  चक्षुषां दशशतीमनिमेषां तस्थिवान्मुनिमुखे प्रणिधाय ॥ १९॥

 इतीति ॥ मघवा इन्द्र इति पूर्वोक्तमुदीर्योक्त्वा अवहितत्वस्य सावधानत्वस्य भरेणाधिक्येन विनयधि विनीतत्वसमृद्धिं वर्धयन्नधिकीकुर्वन्सन अनिमेषां निमेषरहितां चक्षुषां दशशती नेत्रसहस्रं मुनिमुखे प्रणिधाय संस्थाप्य तस्थिवांस्तूष्णीं स्थितः । अमरत्वात्सावधानत्वाञ्च निर्निमेषत्वम्[३]

  वीक्ष्य तस्य विनये परिपाकं पाकशासनपदं स्पृशतोऽपि ।

  नारदः प्रमदगनदयोक्त्या विस्मितः स्मितपुरःसरमूचे ॥ २० ॥

 वीक्ष्येति ॥ नारदः प्रमदेन हर्षेण गद्गदयास्पष्टया उक्त्या वाचा कृत्वा स्मितपुरःसरमूचे । महानुभावाः स्मितपूर्वभाषिणो हि । किंभूतः-पाकशासनपदमिन्द्रपदं स्पृशतोऽधितिष्ठतोऽपि तस्येन्द्रस्य विनये परिपाकं प्रकर्ष वीक्ष्य विस्मित आश्चर्ययुक्तः । अतिसमृद्धस्य विनीतत्वं दुर्लभम्, इन्द्रे तु विद्यत इत्याश्चर्यम् । अविनीतं दृष्ट्वा इन्द्रपदे स्थित इति लौकिक्युक्तिः। 'आख्यत्' इति पाठे 'अस्यति-' इत्यङ् [४]


  1. 'अत्रानुप्रासरूपकातिशयोक्तिसंकरः' इति साहित्यविद्याधरी।
  2. 'अत्रातिशयोक्तिः श्लेषश्च' इति साहित्यविद्याधरी । 'अत्र मुनिवाक्यारोपणस्याघमर्षणस्य प्रकृताघहरणोपयोगात्परिणामालंकारः' इति जीवातुः।
  3. 'अत्र जातिः' इति साहित्यविद्याधरी
  4. 'अत्र छेकानुप्रासः' इति साहित्यविद्याधरी