पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०२
नैषधीयचरिते

न त्वतीसारादिना । करिण ई[१]रयन्तीति इगुपधत्वात्कः। 'द्वौ वंशौ कुलमस्करौ' 'वंशाङ्कुरे करीरोस्त्री' इति चाम[२]रः॥

 वीरा एव किमिति पृच्छ्य्यन्त इत्यत आह-

  पार्थिवं हि निजमाजिषु वीरा दूरमूर्ध्वगमनस्य विरोधि ।

  गौरवाट्टपुरपास्य भजन्ते मत्कृतामतिथिगौरवऋद्धिम् ॥ १५ ॥

 पार्थिवमिति ॥ वीराः पार्थिवं राजभूतं द्व्यणुकादिक्रमेण पृथिवीजन्यं च निजं स्वीयं वपुः आजिषु सङ्ग्रामेषु अपास्य त्यक्त्वा दिव्यं देहं प्राप्य मत्कृतां मद्रचितामतिथिगौररखऋद्धिमतिथिसत्कारसमृद्धिं हि यस्माद्भजन्ते प्राप्नुवन्ति ततः पृच्छ्यन्त इत्यर्थः । किंभूतं वपुः--गौरवात्पतनहेतोगुरुत्वाच दूरमतितरामूर्ध्वगमनस्य स्वर्गप्राप्तेः विरोधि प्रतिवन्धकम् । अन्योऽपि दूरगमनविरोधि गुरुतरं वस्तु त्यक्त्वा जिगमिषति । गौरवादादरातिशयादतिथिगौरवऋद्धिमिति वान्वयः । गुरु वस्तु त्यक्त्वा गुरुतरं गृह्णाति तत्रापि स्वीयं त्यक्त्वान्यदीयं गृह्णातीति सुतरामाश्चर्यम् । गौरवऋद्धिम्, 'ऋत्यकः' इति प्रकृतिभावः ॥

  साभिशापमिव नातिथयस्ते मां यदद्य भगवन्नुपयन्ति ।

  तेन न श्रियमिमां बहु मन्ये खोदरैकभृतिकार्यकदर्याम् ॥ १६ ॥

 साभिशापमिति ॥ हे भगवन् , ते वीरलक्षणा अतिथयः साभिशापमिव सकलङ्कमिव मामय इदनीं यद्यस्मान्नोपयन्ति न प्राप्नुवन्ति तेन तदनागमनेन कारणेन इमां श्रियमिन्द्रलक्ष्मीं बहु अतितरां न मन्ये न संमानयामि । अस्यास्तदातिथ्याद्यावदुपयोगो न तावदस्या निष्प्रयोजनत्वान्मम संतोषो न । किंभूतां श्रियम्-स्वोदरस्यात्मोदरस्यैवैका केवला या भृतिर्भरणं सैव कार्य प्रयोजनं यस्याः । अत एव-सा चासौ का च कुत्सिता । निन्द्यामित्यर्थः । 'आत्मानं धर्मकार्यं च पुत्रदारांश्च पीडयेत् । लोभाढ्यः पितरौ भृत्यान्स कदर्य इति स्मतः॥' 'अथ मिथ्याभिशंसनम् । अभिशाप:' इत्यमरः॥

  पूर्वपुण्यविभवव्ययल[३]ब्धा श्री[४]भरा विपद एव विमृष्टाः ।

  पात्रपाणिकमलार्पणमासां तासु शान्तिकविधिर्विधिदृष्टः ॥१७॥

 पूर्वेति ॥ हे मुने, पूर्वं पुराकृतं यत्पुण्यं कृच्छ्रचान्द्रायणादि तस्य विभवो माहात्म्यं तस्य व्ययेन विनियोगेन । नाशेनेति यावत् । लब्धाः प्राप्ताः श्रीभरा लक्ष्मीविलासा विमृष्टा विचारिताः सत्यो विपद् एव बहुपुण्यक्षयकारित्वादुद्दुःखकारित्वाच्च विप-


  1. इदं तु 'अकारादनुपपदाकर्मोपपदो विप्रतिषेधेन । अनुपपदस्यावकाशः-विक्षिपः, विलिखः । कर्मोंपपदस्यावकाशः-कुम्भकारः, नगरकारः । इहोभयं प्राप्नोति-काष्ठभेदः । कर्मोपपदो भवति विप्रतिषेधेन इति भाष्यविरोधाञ्चिन्त्यम् । तस्मात् 'कर्मण्यण्' इति सूत्रेणाणेवात्र बोध्यः ।'
  2. 'अत्रोपमारूपकश्लेषसंकरः' इति साहित्यविद्याधरी
  3. 'बद्धाः' इति तिलकसुखावबोधासाहित्यविद्याधरीसंमतः पाठः ।
  4. 'संपदः' इति सुखावबोधासंमतः पाठः ।