पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चमः सर्गः। १९७ तुर्यः स्थैर्यविचारणप्रकरणभ्रातर्ययं तन्महा- काव्येऽत्र1 व्यगलन्नलस्य चरिते सगों निसर्गोज्ज्वलः ॥४॥ श्रीहर्षमिति ॥ पूर्वार्धं पूर्ववत् । स्थैर्यविचारणं क्षणभङ्गनिराकरणेन स्थिरत्वस्य वि- चारणसूचकं प्रकरणं ग्रन्थः, तस्य भ्रातरि एककर्तृकत्वात्सोदरे काव्ये तुर्यश्चतुर्थः सर्गः समाप्तः। स्थैर्यविचाराख्यो ग्रन्थः श्रीहर्षेण कृतः। 'चतुरश्छयतौ चलोपश्च' इति यति चलोपे च तुर्य इति सिद्धम् ॥ इति श्रीवेदकरोपनामकश्रीमन्नरसिंहपण्डितात्मजनारायणकृते नैषधीयप्रकाशे च- तुर्थः सर्गः समाप्तः॥ पञ्चमः सर्गः। अथ 'व्यतरत्-' इति श्लोके पित्रोक्तं स्वयंवरोपक्रममुद्दिश्य तत्प्रसङ्गार्थं पञ्चमं सर्ग- मारभते- यावदागमयतेऽथ नरेन्द्रान्स स्वयंवरमहाय महीन्द्रः। तावदेव ऋषिरिन्द्रदिदृशुर्नारदस्त्रिदशधाम जगाम ॥१॥ यावदिति ॥ अथ भैमीसमाश्वासनानन्तरं स महीन्द्रो भीमः स्वयंवर एव मह उ. त्सवः, तदर्थं यावत् नरेन्द्रान्राज्ञः आगमयते प्रतीक्षते आनाययते वा स्वयंवरार्थमाहू- तानां राज्ञां प्रतीक्षां करोति तावदेव तस्मिन्नेव काले इन्द्रं दिदृक्षुष्टुमिच्छुर्नारदनामा ऋषिस्त्रिदशधाम स्वर्गं जगाम गतवान् । कलहद्वारा नरसमूहं द्यतीति । कलहप्रवर्तक इत्यर्थः । आगमयते, 'आगमेः क्षमायामात्मनेपदम्' इति वक्तव्यात्तङ् । एव ऋषिः, 'ऋत्यकः' । इन्द्रदिदृक्षुः, शेषषष्ठीसमासः। बहुलग्रहणाद्योगविभागाद्वा । अधर्मजुगु- प्सुरितिवद्वितीयासमासो वा 2॥ नात्र चित्रमनु तं प्रययौ यत्पर्वतः स खलु तस्य सपक्षः । नारदस्तु जगतो गुरुरुच्चैर्विस्मयाय गगनं विललङ्घे ॥ २ ॥ नात्रेति ॥ पर्वत एतन्नामा ऋषिः तं नारदमनु पश्चाद्यत्प्रययौ अनुगतः । अत्र अ- स्मिन्विषये चित्रमाश्चर्यं न । कुतः खलु यस्मात्स पर्वतः तस्य नारदस्य सपक्षो मित्र- भूतः। यद्यपि कार्याक्षमः तथापि मित्रत्वादनुगमनं युक्तम् , अतो नाश्चर्यम् । तर्हि कु- त्राश्चर्यमित्यत आह-उपदेष्टृत्वात्पूज्यत्वाच्च जगतो गुरुर्नारदस्तु पुनर्यद्गगनमाकाशं विललङ्घे लङ्घितवान् तद् उच्चैरतितरां विस्मयाय आश्चर्याय । जातमिति शेषः । अर्थाद्य- त्तदोः संबन्धः । जगतो विस्मयायेति वा । वीनां पक्षिणामपि स्मयाय वेगातिशयेनाद्भु- १ 'चारुणि नैषधीयचरिते' इति पुस्तकान्तरपाठः । २ 'अस्मिन्सर्गे स्वागता वृत्तम् । 'स्वागतेति रन- भाद्गुरुयुग्मम्' इति लक्षणात् । अत्र च्छेकानुप्रासोऽलंकारः' इति साहित्यविद्याधरी ।