पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुर्थः सर्गः। १९३ दुःखितो दुःखहेतौ नालीकत्वं विचारयति । अलीकमेव नलराहित्यमविचार्यैवमपि मूर्छां प्रापेति युक्तमेव । 'तीमपि' इति पाठः1॥ अधित2 कापि मुखे सलिलं सखी प्यधित कापि सरोजदलैः स्तनौ। व्यधित कापि हृदि व्यजनानिलं न्यधित कापि हिमं सुतनोस्तनौ ॥ अधितेति ॥ कापि सखी सुतनोरतिकृशाया भैम्या मुखे सलिलमधित चिक्षेप । का- पि काचित्सखीं सरोजदलैः स्तनौ प्यधित आच्छादितवती । काचिद्धृदि व्यजनानिलं व्यधित चकार । काचिच्च हिमं चन्दनं तनौ शरीरे न्यधित निक्षिप्तवती । 'चन्दने च हिमं विदुः' इति विश्वः । 'बिसम्' इति पाठः॥ उपचचार चिरं मृदुशीतलैर्जलजनालमृणालजलादिभिः। प्रियसखीनिवहः स तथा क्रमादियमवाप यथा लघु चेतनाम११२ उपचचारेति ॥ स प्रियो हितः सखीनिवहः मृदुभिः कोमलैः शीतलैर्हिमैश्च जलजैः कमलैः जलचन्दनव्यजनानिलायैः चिरकालं क्रमात्परिपाट्या भैमीं तथा उपचचार यथा इयं लध्वीमल्पां चेतनामवाप । लघु शीघ्र वा 4॥ अथ कले कलय श्वसिति स्फुटं चलत्ति पक्ष्म चले परिभावय । अधरकम्पनमुन्नय मेनके किमपि जल्पति कल्पलते शृणु॥११३॥ रचय चारुमति स्तनयोर्वृति कलय केशिनि कैश्यमसंयतम् । अवगृहाण तरङ्गिणि नेत्रयोर्जलझराविति शुश्रुविरे गिरः॥११४॥ अथेति ॥ रचयेति । युग्मम् । इति सखीनां परस्परं गिरो वाचो बहिर्देशस्थैः शुश्रु- विर आकर्णिताः। इतिकिम्-कले इत्यादीनि भैमीसखीनामानि । अथानन्तरं कन्यान्त:- पुरे हे कले सखि, इयं भैमी स्फुटं प्रकटं श्वसिति जीवति इति कलय विचारय । हे चले सखि, पक्ष्म अक्षिलोम चलति परिभावय विचारय । पक्षमचलनमपि जीवनचिह्नम् । हे मेनके सखि, अधरकम्पनमोष्ठस्फुरणमुन्नय तर्कय । हे कल्पलते सखि, इयं किम- प्यस्पष्टं स्वल्पं च जल्पति वदति शृणु । एवं जीवनज्ञानानन्तरं हे चारुमते सखि, स्तनयोवृतिमावरणं रचय कुरु । इयं स्तनयोरनावृतिं न जानाति । हे केशिनि सखि, असंयतमनिबद्धं कैश्यं केशसमूहं कलय बधान । त्वं केशकर्म जानासि यतः। हे तरङ्गि- णि सखि, नेत्रयोर्जलझरौ बाष्पप्रवाही अवगृहाणापाकरु । तरङ्गिण्या हि जलझरावग्रहः १ 'अत्र काव्यलिङ्गमलंकारः' इति साहित्यविद्याधरी । 'अर्थान्तरन्यासोऽलंकारः' इति जीवातुः। २ सुखावबोधासाहित्यविद्याधर्योस्तु 'अधित' 'उपचचार' इत्यनयोरीप युग्मत्वमेवोक्तम् । ३ 'जल- जजाल-' इति पाठमाश्रित्य ‘पद्मसमूहैः' इति व्याख्यातं जीवातौ । सुखावबोधायां तु यद्यपि ‘पद्म- नालं तु मृणालं तन्तुलं बिसम्' इति कोषे नालमृणालयोरैक्यमेवास्ति तथाप्याकृतिभेदानेदोऽवगन्तव्यः । इत्युक्तम् । ४ 'अनुप्रासजात्यलंकारौ' इति साहित्यविद्याधरी । २५